Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

rāmāṣṭottaraśatanāmastotram

रामाष्टोत्तरशतनामस्तोत्रम्

Verse

श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥

Verse

श्रीरामो रामचन्द्रश्च रामभद्रश्च शाश्वतः । राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥१॥

Verse

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः । विश्वामित्रप्रियो दान्तः शरण्यत्राणतत्परः ॥२॥

Verse

वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः । सत्यव्रतो व्रतधरः सदा हनुमदाश्रयः ॥३॥

Verse

कौसलेयः खरध्वंसी विराधवधपण्डितः । विभीषणपरित्राता हरकोदण्डखण्डनः ॥४॥

Verse

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः । जामदग्न्यमहादर्पदलनस्ताडकान्तकृत् ॥५॥

Verse

वेदान्तपारो वेदात्मा भवबन्धैकभेषजः । दूषणत्रिशिरोरिश्च त्रिमूर्तिस्त्रिगुणस्त्रयी ॥६॥

Verse

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः । त्रिलोकरक्षको धन्वी दण्डकारण्यवासकृत् ॥७॥

Verse

अहल्यापावनश्चैव पितृभक्तो वरप्रदः । जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः ॥८॥

Verse

ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः । जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥९॥

Verse

सर्वदेवाधिदेवश्च मृतवानरजीवनः । मायामारीचहन्ता च महाभोगो महाभुजः ॥१०॥

Verse

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः । महायोगो महोदारः सुग्रीवस्थिरराज्यदः ॥११॥

Verse

सर्वपुण्याधिकफलः स्मृतः सर्वाघनाशनः । आदिपुरुषो महापुरुषः परमः पुरुषस्तथा ॥१२॥

Verse

पुण्योदयो महासारः पुराणः पुरुषोत्तमः । स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः ॥१३॥

Verse

अनन्तगुणगम्भीरो धीरो दान्तगुणोत्तमः । मायामानुषचारित्रो महादेवाभिपूजितः ॥१४॥

Verse

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः । श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥१५॥

Verse

सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः । शिवलिङ्गप्रतिष्ठाता सर्वाघगणवर्जितः ॥१६॥

Verse

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः । परञ्ज्योतिः परन्धाम पराकाशः परात्परः ॥१७॥

Verse

परेशः पारगः पारः सर्वभूतात्मकः शिवः । इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ॥१८॥

Verse

गुह्याद् गुह्यतरं देवि तव स्नेहात् प्रकीर्तितम् । यः पठेच्छृणुयाद् वाऽपि भक्तियुक्तेन चेतसा ॥१॥

Verse

स सर्वैर्मुच्यते पापैः कल्पकोटिशतोद्भवैः । जलानि स्थलतां यान्ति शत्रवो यान्ति मित्रताम् ॥२॥

Verse

राजानो दासतां यान्ति वह्नयो यान्ति सौम्यताम् । आनुकूल्यं च भूतानि स्थैर्यं यान्ति चलाः श्रियः ॥३॥

Verse

अनुग्रहं ग्रहा यान्ति शान्तिमायान्त्युपद्रवाः । पठतो भक्तिभावेन नरस्य गिरिसम्भवे ॥४॥

Verse

यः पठेत् परया भक्त्या तस्य वश्यं जगत्त्रयम् । यं यं कामं प्रकुरुते तं तमाप्नोति कीर्तनात् ॥५॥

Verse

कल्पकोटिसहस्राणि कल्पकोटिशतानि च । वैकुण्ठे मोदते नित्यं दशपूर्वैर्दशापरैः ॥६॥

Verse

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् । स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो जनाः ॥७॥

Verse

रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥८॥

Verse

इमं मन्त्रं महादेवि जपन्नेव दिवानिशम् । सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥९॥

Verse

॥इति श्री-पाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे रामचन्द्राष्टोत्तरशतनामकथनं नामैकाशीत्यधिकद्विशततमेऽध्याये श्रीरामचन्द्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

gaṇapati gakāra aṣṭottaraśatanāmastotram
āñjaneyāṣṭottaraśatanāmastotram

Read next

More on रामाष्टोत्तरशतनामस्तोत्रम्

  • श्रीरामाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीरामाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • रकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • पकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीरामाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms