Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

gaṇapati gakāra aṣṭottaraśatanāmastotram

गणपति गकार अष्टोत्तरशतनामस्तोत्रम्

Verse

गकाररूपो गम्बीजो गणेशो गणवन्दितः । गणनीयो गणोगण्यो गणनातीतसद्गुणः ॥१॥

Verse

गगनादिकसृद्गङ्गासुतो गङ्गासुतार्चितः । गङ्गाधरप्रीतिकरो गवीशेड्यो गदापहः ॥२॥

Verse

गदाधरनुतो गद्यपद्यात्मककवित्वदः । गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥३॥

Verse

गञ्जानिरतशिक्षाकृद्गणितज्ञो गणोत्तमः । गण्डदानाञ्चितो गन्ता गण्डोपलसमाकृतिः ॥४॥

Verse

गगनव्यापको गम्यो गमानादिविवर्जितः । गण्डदोषहरो गण्डभ्रमद्भ्रमरकुण्डलः ॥५॥

Verse

गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः । गन्धप्रियो गन्धवाहो गन्धसिन्धूरबृन्दगः ॥६॥

Verse

गन्धादिपूजितो गव्यभोक्ता गर्गादिसन्नुतः । गरिष्ठो गरभिद्गर्वहरो गरलिभूषणः ॥७॥

Verse

गविष्ठो गर्जितारावो गभीरहृदयो गदी । गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ॥८॥

Verse

गर्भाधारो गर्भवासि-शिशुज्ञान-प्रदायकः । गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः ॥९॥

Verse

गयेडितो गयाश्राद्धफलदश्च गयाकृतिः । गदाधरावतारी च गन्धर्वनगरार्चितः ॥१०॥

Verse

गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः । गणरात्रसमाराध्यो गर्हणस्तुति-साम्यधीः ॥११॥

Verse

गर्ताभनाभिर्गव्यूतिदीर्घतुण्डो गभस्तिमान् । गर्हिताचारदूरश्च गरुडोपलभूषितः ॥१२॥

Verse

गजारिविक्रमो गन्धमूषवाजी गतश्रमः । गवेषणीयो गहनो गहनस्थमुनिस्तुतः ॥१३॥

Verse

गवयच्छिद्गण्डकभिद्गह्वरापथवारणः । गजदन्तायुधो गर्जद्रिपुघ्नो गजकर्णिकः ॥१४॥

Verse

गजचर्मामयच्छेत्ता गणाध्यक्षो गणार्चितः । गणिकानर्तनप्रीतो गच्छन् गन्धफली प्रियः ॥१५॥

Verse

गन्धकादिरसाधीशो गणकानन्ददायकः । गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः ॥१६॥

Verse

गण्डूषीकृतवाराशिः गरिमालघिमादिदः । गवाक्षवत्सौधवासी गर्भितो गर्भिणीनुतः ॥१७॥

Verse

गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः । गदितो गद्गदारावसंस्तुतो गह्वरीपतिः ॥१८॥

Verse

गजेशो गरीयान् गद्येड्यो गतभीर्गदितागमः । गर्हणीय गुणाभावो गङ्गादिकशुचिप्रदः ॥१९॥

Verse

गणनातीत-विद्या-श्री-बलायुष्यादि-दायकः । एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ॥२०॥

Verse

पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् । पूजान्ते यः पठेन्नित्यं प्रीतः सन् तस्य विघ्नराट् ॥२१॥

Verse

यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति । दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ॥२२॥

Verse

एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि । तस्य प्रसन्नो विघ्नेशः सर्वान् कामान् प्रयच्छति ॥२३॥

Verse

॥ इति श्री-गणपति गकार अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

gaṇapatyaṣṭottaraśatanāmastotram
rāmāṣṭottaraśatanāmastotram

Read next

More on गणपति गकार अष्टोत्तरशतनामस्तोत्रम्

  • श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms