Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

gaṇapatyaṣṭottaraśatanāmastotram

गणपत्यष्टोत्तरशतनामस्तोत्रम्

Verse

ॐकारसन्निभमिभाननमिन्दुभालं मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् । लम्बोदरं कलचतुर्भुजमादिदेवं ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥

Verse

गणेश्वरो गणक्रीडो महागणपतिस्तथा । विश्वकर्ता विश्वमुखो दुर्जयो धूर्जयो जयः ॥१॥

Verse

सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः । योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥२॥

Verse

चित्राङ्गः श्यामदशनो भालचन्द्रश्चतुर्भुजः । शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः ॥३॥

Verse

कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः । निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ॥४॥

Verse

पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः । सर्वायवसम्पूर्णः सर्वलक्षणलक्षितः ॥५॥

Verse

इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः । अक्षमालाधरो ज्ञानमुद्रावान् विजयावहः ॥६॥

Verse

कामिनीकामनाकाममालिनीकेलिलालितः । अमोघसिद्धिराधार आधाराधेयवर्जितः ॥७॥

Verse

इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः । कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥८॥

Verse

कमण्डलुधरः कल्पः कपर्दी कटिसूत्रभृत् । कारुण्यदेहः कपिलो गुह्यागमनिरूपितः ॥९॥

Verse

गुहाशयो गुहाब्धिस्थो घटकुम्भो घटोदरः । पूर्णानन्दः परानन्दो धनदो धरणीधरः ॥१०॥

Verse

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः । भव्यो भूतालयो भोगदाता चैव महामनाः ॥११॥

Verse

वरेण्यो वामदेवश्च वन्द्यो वज्रनिवारणः । विश्वकर्ता विश्वचक्षुर्हवनं हव्यकव्यभुक् ॥१२॥

Verse

स्वतन्त्रः सत्यसङ्कल्पस्तथा सौभाग्यवर्धनः । कीर्तिदः शोकहारी च त्रिवर्गफलदायकः ॥१३॥

Verse

चतुर्बाहुश्चतुर्दन्तश्चतुर्थातिथिसम्भवः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥१४॥

Verse

कामरूपः कामगतिर्द्विरदो द्वीपरक्षकः । क्षेत्राधिपः क्षमाभर्ता लयस्थो लड्डुकप्रियः ॥१५॥

Verse

प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रसादनः । भगवान् भक्तिसुलभो याज्ञिको याजकप्रियः ॥१६॥

Verse

इत्येवं देवदेवस्य गणराजस्य धीमतः । शतमष्टोत्तरं नाम्नां सारभूतं प्रकीर्तितम् ॥१७॥

Verse

सहस्रनाम्नामाकृष्य मया प्रोक्तं मनोहरम् । ब्राह्मे मुहूर्ते चोत्थाय स्मृत्वा देवं गणेश्वरम् । पठेत्स्तोत्रमिदं भक्त्या गणराजः प्रसीदति ॥१८॥

Verse

॥ इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणपत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

gaṇeśāṣṭottaraśatanāmastotram
gaṇapati gakāra aṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms