stotrasangraha
gaṇeśāṣṭottaraśatanāmastotram
गणेशाष्टोत्तरशतनामस्तोत्रम्
Verse
विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः । स्कन्दाग्रजोऽव्ययो पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥१॥
Verse
अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः । सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः ॥२॥
Verse
सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितः शिवः । शुद्धो बुद्धिप्रियः शान्तो ब्रह्मचारी गजाननः ॥३॥
Verse
द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः । एकदन्तश्चतुर्बाहुश्चतुरः शक्तिसंयुतः ॥४॥
Verse
लम्बोदरः शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः । कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥५॥
Verse
पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः । अकल्मषः स्वयंसिद्धः सिद्धार्चितपदाम्बुजः ॥६॥
Verse
बीजपूरफलासक्तो वरदः शाश्वतः कृतिः । विद्वत्प्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥७॥
Verse
श्रीदोऽजोत्पलकरः श्रीपतिः स्तुतिहर्षितः । कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥८॥
Verse
चन्द्रचूडामणिः कान्तः पापहारी समाहितः । आश्रितः श्रीकरः सौम्यो भक्तवाञ्छितदायकः ॥९॥
Verse
शान्तः कैवल्यसुखदः सच्चिदानन्दविग्रहः । ज्ञानी दयायुतो दान्तो ब्रह्म द्वेषविवर्जितः ॥१०॥
Verse
प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः । रमार्चितो विधिर्नागराजयज्ञोपवीतवान् ॥११॥
Verse
स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियो परः । स्थूलतुण्डोऽग्रणीर्धीरो वागीशः सिद्धिदायकः ॥१२॥
Verse
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् । शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥१३॥
Verse
स्वलावण्यसुधासारजितमन्मथविग्रहः । समस्तजगदाधारो मायी मूषिकवाहनः । हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ॥१४॥
Verse
॥इति श्री-गणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥
