aSTottaranAma
gaṇeśāṣṭottaraśatanāmastotram
गणेशाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीशिव उवाच - काश्यां तु बहवो विघ्नाः काशीवासवियोजकाः । तच्छान्त्यर्थं दुण्ढिराजः पूजनीयः प्रयत्नतः ॥५०॥
Verse
अष्टोत्तरशतं दिव्यैर्गणेशस्यैव नामभिः । कर्तव्यमतियत्नेन नवदूर्वाङ्कुरार्पणम् ॥५१॥
Verse
हिरण्मयतनुं शुद्धं सर्वार्तिहरमव्ययम् । वरदं गणपं ध्यात्वा पूजा कार्या प्रयत्नतः ॥५२॥
Verse
ऋषिर्विघ्नेश इत्यादिनाम्नां सर्वेश्वरः शिवः । देवता विघ्नराजोऽत्र छन्दोऽनुष्टुप् शुभप्रदम् ॥५३॥
Verse
सर्वप्रत्यूहशमनं फलं शक्तिः सुधात्मिका । कीलकं गणनाथस्य पूजा कार्येति कामदा ॥५४॥
Verse
अथ नामावलिः ।
Verse
ॐ विघ्नेशो विश्ववरदो विश्वचक्षुर्जगत्पतिः । हिरण्यरूपः सर्वात्मा ज्ञानरूपो जगन्मयः ॥५५॥
Verse
सर्वज्ञः सर्वगः शान्तो गजास्यो विगतज्वरः । विश्वमूर्तिरमेयात्मा विश्वाधारः सनातनः ॥५६॥
Verse
सामगानप्रियो मन्त्री सत्त्वाधारः सुराधिपः । समस्तसाक्षी निर्द्वन्द्वो निर्लिप्तोऽमोघविक्रमः ॥५७॥
Verse
नियतो निर्मलः पुण्यकामदः कान्तिदः कविः ॥५८॥
Verse
कामरूपी कामवेषो कमलाक्षः कलाधरः । सुमुखः सर्वदः शुद्धो मूषिकाधिपवाहनः ॥५९॥
Verse
दीर्घतुण्डघनुः श्रीमाननन्तो मोहवर्जितः । वक्रतुण्डः शूर्पकर्णो परमं पावनेश्वरः ॥६०॥
Verse
योगीशो योगवन्द्याङ्घ्रिरुमाजनुरयापहः । एकदन्तो महाग्रीवः शरण्यः सिद्धसेवितः ॥६१॥
Verse
सिद्धिदः करुणासिन्धुः भगवान् भव्यविग्रहः । विकटः कपिलो ढुण्ढिरुग्रो भीमोदरः शुभः ॥६२॥
Verse
गणाध्यक्षो गणाराध्यो गणेशो गणनायकः । ज्योतिःस्वरूपो भूतात्मा धूमकेतुरनाकुलः ॥६३॥
Verse
कुमारगुरुरानन्दो हेरम्बो वेदसंस्तुतः । नागोपवीती दुर्धर्षो बालदूर्वाङ्कुरप्रियः ॥६४॥
Verse
भालचन्द्रो विश्वधामा शिवपुत्रो विनायकः । लीलावलम्बितवपुः पूर्णः परमसुन्दरः ॥६५॥
Verse
विघ्नान्धकारमार्ताण्डो विघ्नारण्यदवानलः । सिन्धूरवदनो नित्यो प्रभुः प्रथमपूजितः ॥६६॥
Verse
शरण्यदिव्यपादाब्जो भक्तमन्दारभूरुहः । रत्नसिह्मासनासीनो मणिकुण्डलमण्डितः ॥६७॥
Verse
भक्तकल्याणदोऽमेयः कल्याणगुणसंश्रयः । एतानि दिव्यनामानि गणेशस्य महात्मनः ॥६८॥
Verse
पठनीयानि यत्नेन सर्वथा सर्वदेहिभिः । नाम्नामेकैकमेतेषां सर्वसिद्धिप्रदायकम् ॥६९॥
Verse
अथ उपदेशः सर्वविघ्नेश नाम्नां तु फलं वक्तुं न शक्यते । एकैकमेव तन्नाम दिव्यं जप्त्वा मुनीश्वराः ॥७०॥
Verse
प्रत्यूहमात्ररहितास्तिष्ठन्ति शिवपूजकाः । दूर्वायुग्मानि सङ्गृह्य नूतनान्यतियत्नतः ॥७१॥
Verse
पूजनीयो गणाध्यक्षो नाम्नामेकैकसङ्ख्यया । नभस्यशुक्लपक्षस्य चतुर्थ्यां विधिपूर्वकम् ॥७२॥
Verse
वक्रतुण्डेशकुण्डे तु स्नानं कृत्वा प्रयत्नतः । वक्रतुण्डेशमाराध्य सर्वाभीष्टप्रदायकम् ॥७३॥
Verse
ध्यायेदघहरं शुद्धकाञ्चनाभमनामयम् । ततः पूजां यथाशास्त्रं कृत्वा दूर्वाङ्कुरैर्नवः ॥७४॥
Verse
पूजा कार्या विशेषेण नामोच्चारणपूर्वकम् । ततश्च मोदकैदिव्यैः सुगन्धिघृतपाचितैः ॥७५॥
Verse
नैवेद्यं कल्पयेद्दिव्यंः गणेशाय शुभावहम् । अन्यैश्च परमान्नाद्यैर्भक्ष्यैर्भोज्यैर्मनोहरैः ॥७६॥
Verse
तोषणीयः प्रयत्नेन वक्रतुण्डविनायकः । प्रदक्षिणनमस्कारैर्दिव्यैस्तन्नामसङ्ख्यया ॥७७॥
Verse
कर्तव्या नियतं शुद्धैर्मौनव्रतपरायणः । ततः सन्तर्प्य विधिच्छैवान्ब्राह्मणसम्भावान् ॥७८॥
Verse
पुनरभ्यर्च्य विघ्नेशमिमं मन्त्रमुदीरयेत् ॥७९॥
Verse
अथ मन्त्रः वक्रतुण्ड सुराराध्य सूर्यकोटिसमप्रभ । निर्विघ्नेनैव सततं काशीवासं प्रयच्छ मे ॥८०॥
Verse
इति सम्प्रार्थ्य विधिवत्पूजां कृत्वा पुनर्मुदा । नमस्कृत्वा प्रसाद्यैनं गच्छेड्ढुण्ढिविनायकम् ॥८१॥
Verse
ढुण्ढिराजार्चनं सम्यक्कर्तव्यं विधिपूर्वकम् । तत्रैवार्चाविशेषेण पूजां कृत्वा ततः परम् ॥८२॥
Verse
॥ इति शिवरहस्यान्तर्गते गणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Verse
- ॥श्रीशिवरहस्यम् ।
Verse
उग्राख्यः सप्तमांशः ।
Verse
अध्यायः १२ । ॥
