aSTottaranAma
śrīgaruḍāṣṭottaraśatanāmastotram
श्रीगरुडाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीदेव्युवाच - देवदेव महादेव सर्वज्ञ करुणानिधे ।
Verse
श्रोतुमिच्छामि तार्क्ष्यस्य नाम्नामष्टोत्तरं शतम् ।
Verse
ईश्वर उवाच - शृणु देवि प्रवक्ष्यामि गरुडस्य महात्मनः । नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ॥
Verse
अस्य श्रीगरुडनामाष्टोत्तरशतमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः गरुडो देवता ।
Verse
प्रणवो बीजम् ।
Verse
विद्या शक्तिः ।
Verse
वेदादिः कीलकम् ।
Verse
पक्षिराजप्रीत्यर्थे जपे विनियोगः ।
Verse
ध्यानम् - अमृतकलशहस्तं कान्तिसम्पूर्णदेहं सकलविबुधवन्द्यं वेदशास्त्रैरचिन्त्यम् । कनकरुचिरपक्षोद्धूयमानाण्डगोलं सकलविषविनाशं चिन्तयेत्पक्षिराजम् ॥
Verse
ॐ ।
Verse
वैनतेयः खगपतिः काश्यपोऽग्निर्महाबलः । तप्तकाञ्चनवर्णाभः सुपर्णो हरिवाहनः ॥१॥
Verse
छन्दोमयो महातेजा महोत्साहो महाबलः । ब्रह्मण्यो विष्णुभक्तश्च कुन्देन्दुधवलाननः ॥२॥
Verse
चक्रपाणिधरः श्रीमान्नागारिर्नागभूषणः । विज्ञानदो विशेषज्ञो विद्यानिधिरनामयः ॥३॥
Verse
भूतिदो भुवनत्राता भूशयो भक्तवत्सलः । सप्तच्छन्दोमयः पक्षी सुरासुरसुपूजितः ॥४॥
Verse
गजभुक् कच्छपाशी च दैत्यहन्ताऽरुणानुजः । अमृतांशोऽमृतवपुरानन्दनिधिरव्ययः ॥५॥
Verse
निगमात्मा निराहारो निस्त्रैगुण्यो निरप्ययः । निर्विकल्पः परं ज्योतिः परात्परतरः परः ॥६॥
Verse
शुभाङ्गः शुभदः शूरः सूक्ष्मरूपी बृहत्तनुः । विषाशी विदितात्मा च विदितो जयवर्धनः ॥७॥
Verse
दार्ढ्याङ्गो जगदीशश्च जनार्दनमहाध्वजः । सतां सन्तापविच्छेत्ता जरामरणवर्जितः ॥८॥
Verse
कल्याणदः कलातीतः कलाधरसमप्रभः । सोमपः सुरसङ्घेशो यज्ञाङ्गो यज्ञभूषणः ॥९॥
Verse
महाजवो जितामित्रो मन्मथप्रियबान्धवः । शङ्खभृच्चक्रधारी च बालो बहुपराक्रमः ॥१०॥
Verse
सुधाकुम्भधरो धीमान्दुराधर्षो दुरारिहा । वज्राङ्गो वरदो वन्द्यो वायुवेगो वरप्रदः ॥११॥
Verse
विनतानन्दनः श्रीदो विजितारातिसङ्गुलः । पतद्वरिष्ठः सर्वेशः पापहा पापनाशनः ॥१२॥
Verse
अग्निजिज्जयघोषश्च जगदाह्लादकारकः । वज्रनासः सुवक्त्रश्च मारिघ्नो मदभञ्जनः ॥१३॥
Verse
कालज्ञः कमलेष्टश्च कलिदोषनिवारणः । विद्युन्निभो विशालाङ्गो विनतादास्यमोचनः ॥१४॥
Verse
स्तोमात्मा च त्रयीमूर्धा भूमा गायत्रलोचनः । सामगानरतः स्रग्वी स्वच्छन्दगतिरग्रणीः ॥१५॥
Verse
इतीदं परमं गुह्यं गरुडस्य महात्मनः नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् । स्तूयमानं महादिव्यं विष्णुना समुदीरितम् ॥१६॥
Verse
इति ब्रह्माण्डपुराणान्तर्गतं गरुडाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
