stotrasangraha
kṣamā prārthanā
क्षमा प्रार्थना
Verse
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । तानि सर्वाणि हे देव क्षमस्व पुरुषोत्तम ॥
Verse
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत् क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो ॥
Verse
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत् । तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते ॥
Verse
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च । न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥
Verse
यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते ॥
Verse
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥
Verse
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग् भवेत् ॥
Verse
सर्वं श्री-कृष्णार्पणमस्तु॥
