aSTottaranAma
śrīrāmāṣṭottaraśatanāmastotram
श्रीरामाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीरमो रामभद्रश्च रामचन्द्रश्च शाश्वतः राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ||
Verse
॥
Verse
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ॥९-१५॥
Verse
वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः ॥१६-२२॥
Verse
कौसलेय: खरध्वंसी विराधवधपण्डितः विभीषणपरित्राता हरकोदण्डखण्डनः ॥२३-२७॥
Verse
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः जामदग्न्यमहादर्पदलनस्ताटकान्तकः ॥२८-३१॥
Verse
वेदन्तसारो वेदात्मा भवरोगस्यभेषजं दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥३२-३७॥
Verse
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः त्रिलोकरक्षको धन्वी दण्डकारण्यकर्तनः ॥३८-४३॥
Verse
अहल्याशापशमनः पितृभक्तो वरप्रदः जितेन्द्रियो जितक्रोधः जितामित्रो जगत्गुरुः ॥४४-५०॥
Verse
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥५१-५४॥
Verse
सर्वदेवादिदेवश्च मृतवानरजीवनः मायामारीचहन्ता च महादेवो महाबुजः ॥५५-५९॥
Verse
सर्वलोकस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥६०-६६॥
Verse
सर्वपुण्याधिकफलः स्मृतस्सर्वाघनाशनः आदिपुरुषः परमपुरुषो महापुरुष एव च ॥६७-७१॥
Verse
पुण्योदयो दयासारः पुराणपुरुषोत्तमः स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥७२-७८॥
Verse
अनन्तगुणगंभीरो धीरोदातगुणोत्तमः मायामानुषचारित्रो महादेवादिपूजितः ॥७९-८२॥
Verse
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः श्यामांगः सुन्दरः शूरः पीतवासा धनुर्धरः ॥८३-९१॥
Verse
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ॥९२-९६॥
Verse
परमात्मा परंब्रह्म सच्चिदानन्दविग्रहः परंज्योतिः परंधाम पराकाशः परात्परः ॥९७-१०३॥
Verse
परेशः पारगः पारः सर्वदेवात्मकः परः ॥१०४-१०८॥
