Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīrāmāṣṭottaraśatanāmastotram

श्रीरामाष्टोत्तरशतनामस्तोत्रम्

Verse

श्रीगणेशाय नमः ॥

Verse

वाल्मीकिरुवाच ।

Verse

यैस्तु नामसहस्रस्य पतनं न भवेत्सदा । रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥१॥

Verse

अष्टोत्तरशतं नाम्नामादरेण पठन्तु ते । रामपादारविन्दश्रीप्राप्तिं तेषां च प्रार्थये ॥२॥

Verse

गुणानां चिन्तनं नित्यं दुर्गुणानां विवर्जनम् । साधकानां सदा वृत्तिः परमार्थपरा भवेत् ॥३॥

Verse

यथा तु व्यसने प्राप्ते राघवः स्थिरनिश्चयः । विजयं प्राप्तवानन्ते प्राप्नुवन्तु च सज्जनाः ॥४॥

Verse

श्रीगणेशाय नमः ।

Verse

सम्राड्दक्षिणमार्गस्थः सहोदरपरीवृतः । साधुकल्पतरुर्वश्यो वसन्तऋतुसम्भवः ॥५॥

Verse

सुमन्त्रादरसम्पूज्यो यौवराज्यविनिर्गतः । सुबन्धुः सुमहन्मार्गी मृगयाखेलकोविदः ॥६॥

Verse

सरित्तीरनिवासस्थो मारीचमृगमार्गणः । सदोत्साही चिरस्थायी स्पष्टभाषणशोभनः ॥७॥

Verse

स्त्रीशीलसंशयोद्धिग्नो जातवेद प्रकीर्तितः । स्वयम्बोधस्तमोहारी पुण्यपादोऽरिदारुणः ॥८॥

Verse

साधुपक्षपरो लीनः शोकलोहितलोचनः । संसारवनदावाग्रिः सहकार्यसमुत्सुकः ॥९॥

Verse

सेनाव्यूहप्रवीणः स्त्रीलाञ्छनकृतसङ्गरः । सत्याग्रही वनग्राही करग्राही शुभाकृतिः ॥१०॥

Verse

सुग्रीवाभिमतो मान्यो मन्युनिर्ज्जितसागरः । सुतद्वययुतः सीताश्वार्भगमनाकुलः ॥११॥

Verse

सुप्रमाणितसर्वाङ्गः पुष्पमालासुशोभितः । सुगतः सानुजो योद्धा दिव्यवस्त्रादिशोभनः ॥१२॥

Verse

समाधाता समाकारः समाहारः समन्वयः । समयोगी समुत्कर्षः समभावः समुद्यतः ॥१३॥

Verse

समदृष्टिः समारम्भः समवृत्तिः समद्युतिः । सदोदितो नवोन्मेषः सदसद्वाचकः पुमान् ॥१४॥

Verse

हरिणाकृष्टवैदेहीप्रेरितः प्रियदर्शनः । हृतदार उदारश्रीर्जनशोकविशोषणः ॥१५॥

Verse

हनुमद्वाहनोऽगम्यः सुगमः सज्जनप्रियः । हनुमद्दूतसपन्नो मृगाकृष्टः सुखोदधिः ॥१६॥

Verse

हृन्मन्दिरस्थचिन्मूर्तिर्मृदू राजीवलोचनः । क्षत्राग्रणीस्तमालाभो रुदनक्लिन्नलोचनः ॥१७॥

Verse

क्षीणायुर्जनकाहूतो रक्षोघ्नो ऋक्षवत्सलः । ज्ञानचक्षुर्योगविज्ञो युक्तिज्ञो युगभूषणः ॥१८॥

Verse

सीताकान्तश्चित्रमूर्तिः कैकेयीसुतबान्धवः । पौरप्रियः पूर्णकर्मा पुण्यकर्मपयोनिधिः ॥१९॥

Verse

सुराज्यस्थापकश्चातुर्वर्ण्यसंयोजकः क्षमः । द्वापरस्थो महानात्मा सुप्रतिष्ठो युगन्धरः ॥२०॥

Verse

पुण्यप्रणतसन्तोषः शुद्धः पतितपावनः । पूर्णोऽपूर्णोऽनुजप्राणः प्राप्यो निजहृदि स्वयम् ॥२१॥

Verse

वैदेहीप्राणनिलयः शरणणतवत्सलः ।

Verse

शुभेच्छापुर्वकं स्तोत्रं पठनीयं दिने दिने । अष्टोत्तरशतं नाम्नां राघवस्य पठेन्नरः ॥२२॥

Verse

इष्टं लब्ध्वा सदा शान्तः सामर्थ्यसहितो भवेत् । नित्यं रामेण सहितो निवासस्तस्य वा भवेत् ॥२३॥

Verse

इति श्री अनन्तसुतश्रीदिवाकरविरचितं श्रीरामाष्टोत्तरशतनामस्तोत्रं ३ सम्पूर्णम् ॥

rāmāṣṭottaraśatanāmastotram
śrīrāmarahasyokta śrīrāmāṣṭottaraśatanāmastotram

Read next

More on श्रीरामाष्टोत्तरशतनामस्तोत्रम्

  • श्रीरामाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीरामाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीरामाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीरामरहस्योक्त श्रीरामाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms