aSTottaranAma
rāmāṣṭottaraśatanāmastotram
रामाष्टोत्तरशतनामस्तोत्रम्
Verse
॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् ॥
Verse
विष्णुदास उवाच ।
Verse
गुरो ते प्रष्टुमिच्छामि तत्त्वं वद सविस्तरम् । कुम्भोदरेण मुनिना यत्स्तोत्रं समुदीरितम् ॥१॥
Verse
अष्टोत्तरशतं नाम्नां राघवस्य शुभप्रदम् । श्रवणे तस्य मे प्रीतिर्जाताऽस्ति कथयस्व तत् ॥२॥
Verse
श्रीरामदास उवाच ।
Verse
शृणु शिष्य महाबुद्धे सम्यक् पृष्टं त्वया मम । अष्टोत्तरशतं नाम्नां राघवस्य वदाम्यहम् ॥३॥
Verse
सर्वेश्वरः सर्वमयः सर्वभूतोपकारकः । सर्वेषामुकारार्थं यः साकारो निराकृतिः ॥४॥
Verse
स भवत्येव लोकेऽस्मिन् संसारभयनाशनः । यदा यदा हि लोकानां भयमुत्पद्यते तदा ॥५॥
Verse
अवतीर्याकरोच्छ्रीमान् दुष्टदैत्यविमर्द्दनम् । मत्स्यकूर्मवराहादिरूपेण परमार्थदृक् ॥६॥
Verse
तत्कालेषु च सर्वेषु सर्वेषामुपकारकृत् । साधूनां समचित्तानां भक्तानां भक्तवत्सलः ॥७॥
Verse
उपकर्तुं निराकारः सदाकारेण जायते । अजोऽयं जायतेऽनन्तो विश्रुतो भूतभावनः ॥८॥
Verse
तदा तदाऽवतरति भक्तानामनुकम्पया । क्षीराब्धौ देवदेवेशो लक्ष्मीनारायणो विभुः ॥९॥
Verse
आशेषैः शङ्खचक्राभ्यां देवैर्ब्रह्मादिभिः सह । शेषोऽभूल्लक्ष्मणो लक्ष्मीर्जानकी शङ्खचक्रके ॥१०॥
Verse
जातौ भरतशत्रुघ्नौ देवाः सर्वेऽपि वानराः । आसन् पुरैव सर्वेऽपि देवानां भयशान्तये ॥११॥
Verse
तत्र नारायणो देवः श्रीराम इति विश्रुतः । सर्वलोकोपकाराय भूमौ स्वयमवातरत् ॥१२॥
Verse
ध्यानमात्रेण देवेशो महापातकनाशकृत् । कीर्तनश्रवणाभ्यां च हत्याकोटिनिवारणः ॥१३॥
Verse
कलौ स कीर्तनेनैव सर्वपापं व्यपोहति । रामरामेति रामेति ये वदन्त्यतिपापिनः ॥१४॥
Verse
पापकोटिसहस्रेभ्यस्तानुद्धरति नान्यथा । अष्टोत्तरशतं नाम्नां तस्य स्तोत्रं वदाम्यहम् ॥१५॥
Verse
ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः ।
Verse
अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो देवता ॥
Verse
ॐ बीजम् ।
Verse
नमः शक्तिः ।
Verse
श्रीरामचन्द्रः कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ॥
Verse
षडङ्गन्यासः ।
Verse
ॐ नमो भगवते राजाधिराजाय परमात्मने हृदयाय नमः ।
Verse
ॐ नमो भगवते विद्याधिराजाय हयग्रीवाय शिरसे स्वाहा ।
Verse
ॐ नमो भगवते जानकीवल्लभाय शिखायै वषट् ।
Verse
ॐ नमो भगवते रघुनन्दनायामिततेजसे कवचाय हुम् ।
Verse
ॐ नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय नेत्रत्रयाय वौषट् ।
Verse
ॐ नमो भगवते सत्प्रकाशाय रामाय अस्त्राय फट् । इति दिग्बन्धः ॥
Verse
अङ्गुलीन्यासः ।
Verse
ॐ नमो भगवते राजाधिराजाय परमात्मने अङ्गुष्ठाभ्यां नमः ।
Verse
ॐ नमो भगवते विद्याधिराजाय हयग्रीवाय तर्जनीभ्यां नमः ।
Verse
ॐ नमो भगवते जानकीवल्लभाय मध्यमाभ्यां नमः ।
Verse
ॐ नमो भगवते रघुनन्दनायामिततेजसे अनामिकाभ्यां नमः ।
Verse
ॐ नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय कनिष्ठिकाभ्यां नमः ।
Verse
ॐ नमो भगवते सत्प्रकाशाय रामाय करतलकरपृष्ठाभ्यां नमः ।
Verse
अथ ध्यानम् ।
Verse
मन्दाराकृतिपुण्यधामविलसद्वक्षस्थलं कोमलं शान्तं कान्तमहेन्द्रनीलरुचिराभासं सहस्राननम् । वन्देऽहं रघुनन्दनं सुरपतिं कोदण्डदीक्षागुरुं रामं सर्वजगत्सुसेवितपदं सीतामनोवल्लभम् ॥१६॥
Verse
अथ स्तोत्रम् ।
Verse
ॐ सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः । नमः सहस्रहस्ताय सहस्रचरणाय च ॥१७॥
Verse
नमो जीमूतवर्णाय नमस्ते विश्वतोमुख । अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने ॥१८॥
Verse
नमो हिरण्यगर्भाय पञ्चभूतात्मने नमः । नमो मूलप्रकृतये देवानां हितकारिणे ॥१९॥
Verse
नमस्ते सर्वलोकेश सर्वदुःखनिषूदन । शङ्खचक्रगदापद्मजटामुकुटधारिणे ॥२०॥
Verse
नमो गर्भाय तत्त्वाय ज्योतिषां ज्योतिषे नमः । ॐ नमो वासुदेवाय नमो दशरथात्मज ॥२१॥
Verse
नमो नमस्ते राजेन्द्र सर्वसम्पत्प्रदाय च । नमः कारुण्यरूपाय कैकेयीप्रियकारिणे ॥२२॥
Verse
नमो दन्ताय शान्ताय विश्वामित्रप्रियाय ते । यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक ॥२३॥
Verse
नमो नमः केशवाय नमो नाथाय शर्ङ्गिणे । नमस्ते रामचन्द्राय नमो नारायणाय च ॥२४॥
Verse
नमस्ते रामचन्द्राय माधवाय नमो नमः । गोविन्द्राय नमस्तुभ्यं नमस्ते परमात्मने ॥२५॥
Verse
नमस्ते विष्णुरूपाय रघुनाथाय ते नमः । नमस्तेऽनाथनाथाय नमस्ते मधुसूदन ॥२६॥
Verse
त्रिविक्रम नमस्तेऽस्तु सीतायाः पतये नमः । वामनाय नमस्तुभ्यं नमस्ते राघवाय च ॥२७॥
Verse
नमो नमः श्रीधराय जानकीवल्लभाय च । नमस्तेऽस्तु हृषीकेश कन्दर्पाय नमो नमः ॥२८॥
Verse
नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे । नमो राजीवनेत्राय नमस्ते लक्ष्मणाग्रज ॥२९॥
Verse
नमो नमस्ते काकुत्स्थ नमो दामोदराय च । विभीषणपरित्रातर्नमः सङ्कर्षणाय च ॥३०॥
Verse
वासुदेव नमस्तेऽस्तु नमस्ते शङ्करप्रिय । प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥३१॥
Verse
सदसद्भक्तिरूपाय नमस्ते पुरुषोत्तम । अधोक्षज नमस्तेऽस्तु सप्ततालहराय च ॥३२॥
Verse
खरदूषणसंहर्त्रे श्रीनृसिम्हाय ते नमः । अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक ॥३३॥
Verse
जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय । उपेन्द्रचन्द्रवन्द्याय मारीचमथनाय च ॥३४॥
Verse
नमो बालिप्रहरण नमः सुग्रीवराज्यद । जामदग्न्यमहादर्पहराय हरये नमः ॥३५॥
Verse
नमो नमस्ते कृष्णाय नमस्ते भरताग्रज । नमस्ते पितृभक्ताय नमः शत्रुघ्नपूर्वज ॥३६॥
Verse
अयोध्याधिपते तुभ्यं नमः शत्रुघ्नसेवित । नमो नित्याय सत्याय बुद्ध्यादिज्ञानरूपिणे ॥३७॥
Verse
अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः । नमः पूर्णाय रम्याय माधवाय चिदात्मने ॥३८॥
Verse
अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने । नमोऽहल्योद्धारणाय नमस्ते चापभञ्जिने ॥३९॥
Verse
सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने । नमस्ते बाणहस्ताय नमः कोदण्डधारिणे ॥४०॥
Verse
नमः कबन्धहन्त्रे च वालिहन्त्रे नमोऽस्तु ते । नमस्तेऽस्तु दशग्रीवप्राणसंहारकारिणे ॥४१॥
Verse
१०८ अष्टोत्तरशतं नाम्नां रमचन्द्रस्य पावनम् एतत्प्रोक्तं मया श्रेष्ठ सर्वपातकनाशनम् ॥४२॥
Verse
प्रचरिष्यति तल्लोके प्राण्यदृष्टवशाद्द्विज । तस्य कीर्तनमात्रेण जना यास्यन्ति सद्गतिम् ॥४३॥
Verse
तावद्विजृम्भते पापं ब्रह्महत्यापुरःसरम्। यावन्नामाष्टकशतं पुरुषो न हि कीर्तयेत् ॥४४॥
Verse
तावत्कलेर्महोत्साहो निःशङ्कं सम्प्रवर्तते । यावच्छ्रीरामचन्द्रस्य शतनाम्नां न कीर्तनम् ॥४६॥
Verse
तावत्स्वरूपं रामस्य दुर्बोधं प्राणिनां स्फुटम् । यावन्न निष्ठया रामनाममाहात्म्यमुत्तमम् ॥४७॥
Verse
कीर्तितं पठितं चित्ते धृतं संस्मारितं मुदा । अन्यतः शृणुयान्मर्त्यः सोऽपि मुच्येत पातकात् ॥४८॥
Verse
ब्रह्महत्यादिपापानां निष्कृतिं यदि वाञ्छति । रामस्तोत्रं मासमेकं पठित्वा मुच्यते नरः ॥४९॥
Verse
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसम्भवम् । पापं सकृत्कीर्तनेन रामस्तोत्रं विनाशयेत् ॥५०॥
Verse
श्रुतिस्मृतिपुराणेतिहासागमशतानि च । अर्हन्ति नाल्पां श्रीरामनामकीर्तिकलामपि ॥५१॥
Verse
अष्टोत्तरशतं नाम्नां सीतारामस्य पावनम् । अस्य सङ्कीर्तनादेव सर्वान् कामान् लभेन्नरः ॥५२॥
Verse
पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् । स्त्रियं प्राप्नोति पत्न्यर्थी स्तोत्रपाठश्रवादिना ॥५३॥
Verse
कुम्भोदरेण मुनिना येन स्तोत्रेण राघवः । स्तुतः पूर्वं यज्ञवाटे तदेतत्त्वां मयोदितम् ॥५४॥
Verse
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये यागकाण्डे श्रीरामनामाष्टोत्तरशतनामस्तोत्रं नाम पञ्चमः सर्गः ॥
