Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

rakārādi śrīrāmāṣṭottaraśatanāmastotram

रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम्

Verse

रामो राजीवपत्राक्षो राकाचन्द्रनिभाननः । रात्रिञ्चरार्दितक्षोणी परितापविनाशनः ॥१॥

Verse

राजीवनाभो राजेन्द्रो राजीवासनसंस्तुतः । राजराजादिदिक्पालमौलि माणिक्यदीपितः ॥२॥

Verse

राघवान्वयपाथोधिचन्द्रो राकेन्दुसद्यशाः । रामचन्द्रो राघवेन्द्रो राजीवरुचिराननः ॥३॥

Verse

राजानुजामन्दिरोरा राजीवविलसत्पदः । राजीवहस्तो राजीवप्रियवंशकृतोदयः ॥४॥

Verse

रात्रिनव्याम्बुभृन्मूर्ती राजांशुरुचिरस्मितः । राजीवहारो राजीवधारी राजीवजाप्रियः ॥५॥

Verse

राघवोत्सङ्गविद्योतो राकेन्द्वयुतभास्वरः । राजलेखानखाङ्कूरो राजीवप्रियभूषणः ॥६॥

Verse

राजराजन्मणीभूषो राराजद्भ्रमरालकः । राजलेखाभसीमन्तो राजन्मृगमदाङ्कनः ॥७॥

Verse

राजहीरलसच्छ्रोत्रो राजीवकरगामृतः । रत्नकाञ्चीधरो रम्यो रत्नकाञ्चनकङ्कणः ॥८॥

Verse

रणत्काञ्चनमञ्जीरो रञ्जिताखिलभूतलः । राराजत्कुन्दरदनो रम्यकण्ठो रतव्रजः ॥९॥

Verse

रञ्जिताद्भुतगाधेयो रात्रिञ्चरसतीहरः । रात्रिञ्चरभयत्त्रातगाधेय सवनोत्तमः ॥१०॥

Verse

राराजच्चरणाम्भोजरजःपूतमुनिप्रियः । राजराजसुहृच्चापभेदनो राजपूजितः ॥११॥

Verse

रमारामाकराम्भोज मालोन्मीलितकण्ठमः । रमाकराब्जमारन्दबिन्दुमुक्ताफलावृतः ॥१२॥

Verse

रत्नकङ्कणनिध्वानमिषल्लक्ष्मीस्तुतिश्रुतिः । रमावामदृगन्तालि व्याप्तदुर्लक्ष्यविग्रहः ॥१३॥

Verse

रामतेजस्समाहर्ता रामसोपानभञ्जनः । राघवाज्ञाकृतारण्यवासो रामानुजार्चितः ॥१४॥

Verse

रक्तकञ्जातचरणो रम्यवल्कलवेष्टितः । रात्र्यम्बुदजटाभारो रम्याङ्गश्रीविभूषणः ॥१५॥

Verse

रणच्चापगुणोरक्तमुनित्राणपरायणः । रात्रिञ्चरगणप्राणहर्ता रम्यफलादनः ॥१६॥

Verse

रात्रिञ्चरेन्द्रभगिनीकर्णनासोष्टभेदनः । रातमायामृगप्राणो रावणाहृतसत्प्रियः ॥१७॥

Verse

राजीवबन्धुपुत्राप्तो राजदेवसुतार्धनः । रक्तश्रीहनुमद्वाहो रत्नाकरनिबन्धनः ॥१८॥

Verse

रुद्धरात्रिञ्चरावासो रावणादिविमर्दनः । रामासमालिङ्गिताङ्को रावणानुजपूजितः ॥१९॥

Verse

रत्नसिंहासनासीनो राज्यपट्टाभिषेचनः । राजनक्षत्रवलयवृत राकेन्दुसुन्दरः ॥२०॥

Verse

राकेन्दुमण्डलच्चत्रो राजांशूत्करचामरः । राजर्षिगणसंवीतो रञ्जितप्लवगाधिपः ॥२१॥

Verse

रमादृङ्मालिकानीला नीराजितपदाम्बुजः । रामतत्त्वप्रवचनो राजराजसखोदयः ॥२२॥

Verse

राजबिम्बाननागाननर्तनामोदितान्तरः । राज्यलक्ष्मीपरीरम्भसम्भृताद्भुतकण्टकः ॥२३॥

Verse

रामायणकथामालानायको राष्ट्रशोभनः । राजमालामौलिमालामकरन्दप्लुताङ्घ्रिकः ॥२४॥

Verse

राजताद्रिमहाधीरो राद्धदेवगुरुद्विजः । राद्धभक्ताशयारामो रमिताखिलदैवतः ॥२५॥

Verse

रागी रागविहीनात्मभक्तप्राप्यो रसात्मकः । रसप्रदो रसास्वादो रसाधीशो रसातिगः ॥२६॥

Verse

रसनापावनाभिख्यो रामनामामृतोदधिः । राजराजीवमित्राक्षो राजीवभवकारणम् ॥२७॥

Verse

रमारामाशयानन्द दुग्धसागरचन्द्रमाः । रामभद्रो राजमानो राजीवप्रियबिम्बगः ॥२८॥

Verse

रमारामाभुजलता कण्ठालिङ्गनमङ्गलः । रामसूरिहृदम्भोधिवृत्तिवीचीविहारवान् ॥२९॥

Verse

॥ इति विश्वावसु चैत्रशुद्ध नवमी दिने रामेण लिखितं समर्पितं च रामभद्राय सद्विजयते तराम् रकारादि श्री रामनामाष्टोत्तरशतम् ॥

rakārādi śrīparaśurāmāṣṭottaraśatanāmastotram
vakārādi śrīvarāhāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms