Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

vakārādi śrīvarāhāṣṭottaraśatanāmastotram

वकारादि श्रीवराहाष्टोत्तरशतनामस्तोत्रम्

Verse

वराहो वरदो वन्द्यो वरेण्यो वसुदेवभाः । वषट्कारो वसुनिधिर्वसुधोद्धरणो वसुः ॥१॥

Verse

वसुदेवो वसुमतीदंष्ट्रो वसुमतीप्रियः । वनधिस्तोमरोमान्धुर्वज्ररोमा वदावदः ॥२॥

Verse

वलक्षाङ्गो वश्यविश्वो वसुधाधरसन्निभः । वनजोदरदुर्वारविषादध्वंसनोदयः ॥३॥

Verse

वल्गत्सटाजातवातधूतजीमूतसंहतिः । वज्रदंष्ट्राग्रविच्छिन्न हिरण्याक्षधराधरः ॥४॥

Verse

वशिष्टाद्यर्षिनिकरस्तूयमानो वनायनः । वनजासनरुद्रेन्द्रप्रसादित महाशयः ॥५॥

Verse

वरदानविनिर्धूतब्रह्मब्राह्मणसंशयः । वल्लभो वसुधाहारिरक्षोबलनिषूदनः ॥६॥

Verse

वज्रसारखुराघातदलिताब्धिरसाहिवः । वलाद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्परः ॥७॥

Verse

वदनान्तर्गतायात ब्रह्माण्डश्वासपद्धतिः । वर्चस्वी वरदंष्ट्राग्रसमुन्मीलितदिक्तटः ॥८॥

Verse

वनजासननासान्तर्हंसवाहावरोहितः । वनजासनदृक्पद्मविकासाद्भुतभास्करः ॥९॥

Verse

वसुधाभ्रमरारूढदंष्ट्रापद्माग्रकेसरः । वसुधाधूममषिका रम्यदंष्ट्राप्रदीपकः ॥१०॥

Verse

वसुधासहस्रपत्रमृणालायित दंष्ट्रिकः । वसुधेन्दीवराक्रान्तदंष्ट्राचन्द्रकलाञ्चितः ॥११॥

Verse

वसुधाभाजनालम्बदंष्ट्रारजतयष्टिकः । वसुधाभूधरावेधि दंष्ट्रासूचीकृताद्भुतः ॥१२॥

Verse

वसुधासागराहार्यलोकलोकपधृद्रदः । वसुधावसुधाहारिरक्षोधृच्छृङ्गयुग्मकः ॥१३॥

Verse

वसुधाधस्समालम्बिनालस्तम्भ प्रकम्पनः । वसुधाच्छत्ररजतदण्डच्छृङ्गमनोरमः ॥१४॥

Verse

वतंसीकृतमन्दारो वलक्षीकृतभूतलः । वरदीकृतवृत्तान्तो वसुधीकृतसागरः ॥१५॥

Verse

वश्यमायो वरगुणक्रियाकारो वराभिधः । वरुणालयवास्तव्यजन्तुविद्राविघुर्घुरः ॥१६॥

Verse

वरुणालयविच्छेत्ता वरुणादिदुरासदः । वनजासनसन्तानावनजात महाकृपः ॥१७॥

Verse

वत्सलो वह्निवदनो वराहवमयो वसुः । वनमाली वन्दिवेदो वयस्थो वनजोदरः ॥१८॥

Verse

वेदत्वचे वेदविदे वेदिने वेदवादिने । वेदवेदाङ्गतत्त्वज्ञ नमस्ते वेदमूर्तये ॥१९॥

Verse

वेदविद्वेद्य विभवो वेदेशो वेदरक्षणः । वेदान्तसिन्धुसञ्चारी वेददूरः पुनातु माम् ॥२०॥

Verse

वेदान्तसिन्धुमध्यस्थाचलोद्धर्ता वितानकृत् । वितानेशो वितानाङ्गो वितानफलदो विभुः ॥२१॥

Verse

वितानभावनो विश्वभावनो विश्वरूपधृत् । विश्वदंष्ट्रो विश्वगर्भो विश्वगो विश्वसम्मतः ॥२२॥

Verse

वेदारण्यचरो वामदेवादिमृगसंवृतः । विश्वातिक्रान्तमहिमा पातु मां वन्यभूपतिः ॥२३॥

Verse

वैकुण्ठकोलो विकुण्ठलीलो विलयसिन्धुगः । वप्तःकबलिताजाण्डो वेगवान् विश्वपावनः ॥२४॥

Verse

विपश्चिदाशयारण्यपुण्यस्फूर्तिर्विशृङ्खलः । विश्वद्रोहिक्षयकरो विश्वाधिकमहाबलः ॥२५॥

Verse

वीर्यसिन्धुर्विवद्बन्धुर्वियत्सिन्धुतरङ्गितः । व्यादत्तविद्वेषिसत्त्वमुस्तो विश्वगुणाम्बुधिः ॥२६॥

Verse

विश्वमङ्गलकान्तार कृतलीलाविहार ते । विश्वमङ्गलदोत्तुङ्ग करुणापाङ्ग सन्नतिः ॥२७॥

Verse

॥ इति वकारादि श्री वराहाष्टोत्तरशतम् पराभव श्रावणशुद्ध त्रयोदश्यां लिखितं रामेण समर्पितं च श्रीमद्धयवदन चरणारविन्दयोर्विजयतां तराम् ॥

rakārādi śrīrāmāṣṭottaraśatanāmastotram
vakārādi śrīvāmanāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms