aSTottaranAma
pakārādi śrīparaśurāmāṣṭottaraśatanāmastotram
पकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम्
Verse
पूज्यः पूर्णः प्रदीप्तात्मा पूर्णेन्दुः प्रियभूषणः । परब्रह्मस्वरूपश्च पराशुभविनाशकः ॥१॥
Verse
पितृसन्तोषकर्त्ता च पितृवचनपालकः । पितृमानप्रदश्चैव पितृरिपुविघातकः ॥२॥
Verse
पितृतर्पणसन्तुष्टः पञ्चस्यमन्तकव्रतः । पितृमोक्षप्रदश्चैव पितृकुलप्रमोदकः ॥३॥
Verse
पवित्रः पवनः पारः पुण्यापुण्यफलप्रदः । पङ्क्तिपावननामापि पिनाकपाणि पाटलः ॥४॥
Verse
पतितक्षत्रवंशघ्नः पिशुनकुलघातकः । पितामहः पुरीजेता पशुपाशप्रभेदकः ॥५॥
Verse
पयोव्रती प्रतापी च प्रतिनिधिः प्रसादनः । पुरोहितः प्रसन्नात्मा पद्मार्चितः पुरन्धरः ॥६॥
Verse
पश्यकेष्टप्रदाता च पृथ्विदानपरायणः । पार्थिववृन्दजिष्णुर्वा परब्रह्मस्वरूपकः ॥७॥
Verse
पशुपतिः प्रकृष्टश्च प्रभवः परमेश्वरः । पुराणः पण्डितः पूतः परमवीरतोषकः ॥८॥
Verse
परन्तपः परीक्षितः परमपददायकः । परसैन्यदलच्छेत्ता परशस्त्रास्त्रभेदकः ॥९॥
Verse
प्रथितयशसामग्र्यः प्रथितः प्रणताश्रयः । पाटलाक्षः पुरोधा च पतितोद्धारकारकः ॥१०॥
Verse
परशुरामः प्रख्यातः परासवविशोषकः । पृथ्विक्रमणगन्तापि परयोधनतत्परः ॥११॥
Verse
पञ्चमः पद्मरेखावान् पक्ष्मलः परमेष्टदः । प्रभुः पचपचस्तोता परिचयः पराक्रमः ॥१२॥
Verse
पिता पञ्चमहायज्ञः पद्यगद्यसुलेखकः । प्रपङ्क्तिग्रीवदर्पघ्नः पञ्चाननः प्रतिष्ठितः ॥१३॥
Verse
परिपक्वः प्रमाणज्ञः प्रेमाकृष्टः पुरातनः । प्रणवः परिकाङ्क्षितः पटुः पर्वतवेधकः ॥१४॥
Verse
पृथ्विपतिः परिख्यातः प्रगल्भः पारिकाङ्क्षितः । पञ्चविंशतितत्त्वज्ञः पञ्चवल्कलभूषितः ॥१५॥
Verse
पञ्चनीराजनप्रीतः पूतात्मा पुष्करेक्षणः । प्रतिवादिमुखस्तम्भः पराचितिप्रसादकः ॥१६॥
Verse
पीताम्बरः परिज्ञानी परलोकहितावहः । पाता पुरुषशार्दूलः प्रचण्डः पार्वणप्रियः ॥१७॥
Verse
पिशङ्गः पूर्णिमापूज्यः प्रतिनिधिः पिशङ्गकः । पूज्यपूज्यस्य नामानि पापराशिहराणि च ॥१८॥
Verse
अष्टोत्तरशतं जप्त्वा ब्रह्मलोके महीयते । इति हरियाणा प्रदेशे जयन्तपुरीमण्डलान्तर्गत नगूराङ्ग्रामवासिना कृष्णचन्द्रशास्त्रिणा विरचितं पकारादि श्रीपरशुरामाष्टोत्तरनामस्तोत्रं सम्पूर्णम् ॥
