aSTottaranAma
śrīrāmāṣṭottaraśatanāmastotram
श्रीरामाष्टोत्तरशतनामस्तोत्रम्
Verse
सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः । नमस्सहस्रहस्ताय सहस्रचरणाय च ॥१॥
Verse
नमो जीमूतवर्णाय नमस्ते विश्वतोमुख! । अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने ॥२॥
Verse
नमो हिरण्यगर्भाय पंचभूतात्मने नमः । नमो मूलप्रकृतये देवानां हितकारिणे ॥३॥
Verse
नमस्ते सर्वलोकेश सर्वदुःखनिषूदन । शंखचक्रगदापद्मजटामकुटधारिणे ॥४॥
Verse
नमो गर्भाय तत्त्वाय ज्योतिषां ज्योतिषे नमः । ओं नमो वासुदेवाय नमो दशरथात्मज ॥५॥
Verse
नमो नमस्ते राजेन्द्र सर्वसंपत्प्रदायक । नमः कारुण्यरूपाय कैकेयीप्रियकारिणे ॥६॥
Verse
नमो दान्ताय शान्ताय विश्वामित्रप्रियाय ते । यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक ॥७॥
Verse
नमो नमः केशवाय नमो नाथाय शार्ङ्गिणे । नमस्ते रामचन्द्राय नमो नारायणाय च ॥८॥
Verse
नमस्ते रामभद्राय माधवाय नमो नमः । गोविन्दाय नमस्तुभ्यं नमस्ते परमात्मने ॥९॥
Verse
नमो विष्णुस्वरूपाय रघुनाथाय ते नमः । नमस्ते नाथ नाथाय नमस्ते मधुसूदन ॥१०॥
Verse
त्रिविक्रम नमस्तेऽस्तु सीतायाः पतये नमः । वामनाय नमस्तुभ्यं नमस्ते राघवाय च ॥११॥
Verse
नमो नमः श्रीधराय जानकीवल्लभाय च । नमस्तेऽस्तु हृषीकेश कन्दर्पाय नमो नमः ॥१२॥
Verse
नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे । नमो राजीवनयन नमस्ते लक्ष्मणाग्रज ॥१३॥
Verse
नमो नमस्ते काकुत्स्थ नमो दामोदराय च । विभीषणपरित्रातर्नमः संकर्षणाय च ॥१४॥
Verse
वासुदेवनमस्तेऽस्तु नमस्ते शंकरप्रिय । प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥१५॥
Verse
सदसद्व्यक्तिरूपाय नमस्ते पुरुषोत्तम । अधोक्षज नमस्तेऽस्तु सप्तसालहराय च ॥१६॥
Verse
खरदूषणसंहर्त्रे श्रीनृसिंहाय ते नमः । अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक ॥१७॥
Verse
जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय । उपेन्द्रचन्द्रवन्द्याय मारीचमथनाय च ॥१८॥
Verse
नमो बालिप्रहरण नमस्सुग्रीवराज्यद । जामदग्न्यमहादर्पहराय हरये नमः ॥१९॥
Verse
नमो नमस्ते कृष्णाय नमस्ते भरताग्रज । नमस्ते पितृभक्ताय नमश्शत्रुघ्नपूर्वज ॥२०॥
Verse
अयोध्याधिपते तुभ्यं नमश्शत्रुघ्नसेवित । नमो नित्याय सत्याय बुद्ध्याभिज्ञानरूपिणे ॥२१॥
Verse
अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः । नमः पूर्णाय रम्याय माधवाय चिदात्मने ॥२२॥
Verse
अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने । नमोऽहल्योद्धारणाय नमस्ते चापभङ्गिने ॥२३॥
Verse
सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने । नमस्ते बाणहस्ताय नमः कोदण्डधारिणे ॥२४॥
Verse
नमः कबन्धहन्त्रे च बालिहन्त्रे नमोऽस्तु ते । नमस्तेस्तु दशग्रीवप्राणसंहारकारिणे ॥२५॥
