Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīrāmarahasyokta śrīrāmāṣṭottaraśatanāmastotram

श्रीरामरहस्योक्त श्रीरामाष्टोत्तरशतनामस्तोत्रम्

Verse

रामो रावणसंहारकृतमानुषविग्रहः । कौसल्यासुकृतव्रातफलं दशरथात्मजः ॥१॥

Verse

लक्ष्मणार्चितपादाब्जसर्वलोकप्रियङ्करः साकेतवासिनेत्राब्जसंप्रीणनदिवाकरः ॥२॥

Verse

विश्वामित्रप्रियश्शान्तः ताटकाध्वान्तभास्करः । सुबाहुराक्षसरिपुः कौशिकाध्वरपालकः ॥३॥

Verse

अहल्यापापसंहर्ता जनकेन्द्रप्रियातिथिः । पुरारिचापदलनो वीरलक्ष्मीसमाश्रयः ॥४॥

Verse

सीतावरणमाल्याढ्यो जामदग्न्यमदापहः । वैदेहीकृतशृङ्गारः पितृप्रीतिविवर्धनः ॥५॥

Verse

ताताज्ञोत्सृष्टहस्तस्थराज्यस्सत्यप्रतिश्रवः । तमसातीरसंवासी गुहानुग्रहतत्परः ॥६॥

Verse

सुमन्त्रसेवितपदो भरद्वाजप्रियातिथिः । चित्रकूटप्रियावासः पादुकान्यस्तभूभरः ॥७॥

Verse

अनसूयाङ्गरागाङ्कसीतासाहित्यशोभितः । दण्डकारण्यसञ्चारी विराधस्वर्गदायकः ॥८॥

Verse

रक्षःकालान्तकस्सर्वमुनिसङ्घमुदावहः । प्रतिज्ञातास्शरवधः शरभभङ्गगतिप्रदः ॥९॥

Verse

अगस्त्यार्पितबाणासखड्गतूणीरमण्डितः । प्राप्तपञ्चवटीवासो गृध्रराजसहायवान् ॥१०॥

Verse

कामिशूर्पणखाकर्णनासाच्छेदनियामकः । खरादिराक्षसव्रातखण्डनावितसज्जनः ॥११॥

Verse

सीतासंश्लिष्टकायाभाजितविद्युद्युताम्बुदः । मारीचहन्ता मायाढ्यो जटायुर्मोक्षदायकः ॥१२॥

Verse

कबन्धबाहुदलनश्शबरीप्रार्थितातिथिः । हनुमद्वन्दितपदस्सुग्रीवसुहृदव्ययः ॥१३॥

Verse

दैत्यकङ्कालविक्षेपी सप्ततालप्रभेदकः । एकेषुहतवाली च तारासंस्तुतसद्गुणः ॥१४॥

Verse

कपीन्द्रीकृतसुग्रीवस्सर्ववानरपूजितः । वायुसूनुसमानीतसीतासन्देशनन्दितः ॥१५॥

Verse

जैत्रयात्रोत्सवः जिष्णुर्विष्णुरूपो निराकृतिः । कम्पिताम्भोनिधिस्सम्पत्प्रदस्सेतुनिबन्धनः ॥१६॥

Verse

लङ्काविभेदनपटुर्निशाचरविनाशकः । कुम्भकर्णाख्यकुम्भीन्द्रमृगराजपराक्रमः ॥१७॥

Verse

मेघनादवधोद्युक्तलक्ष्मणास्त्रबलप्रदः । दशग्रीवान्धतामिस्रप्रमापणप्रभाकरः ॥१८॥

Verse

इन्द्रादिदेवतास्तुत्यश्चन्द्राभमुखमण्डलः । बिभीषणार्पितनिशाचरराज्यो वृषप्रियः ॥१९॥

Verse

वैश्वानरस्तुतगुणावनिपुत्रीसमागतः । पुष्पकस्थानसुभगः पुण्यवत्प्राप्यदर्शनः ॥२०॥

Verse

राज्याभिषिक्तो राजेन्द्रो राजीवसदृशेक्षणः । लोकतापपरिहन्ता च धर्मसंस्थापनोद्यतः ॥२१॥

Verse

शरण्यः कीर्तिमान्नित्यो वदान्यः करुणार्णवः । संसारसिन्धुसम्मग्नतारकाख्यामहोज्जवलः ॥२२॥

Verse

मधुरोमधुरोक्तिश्च मधुरानायकाग्रजः । शम्बूकदत्तस्वर्लोकश्शम्बरारातिसुन्दरः ॥२३॥

Verse

अश्वमेधमहायाजी वाल्मीकिप्रीतिमान्वशी । स्वयंरामायणश्रोता पुत्रप्राप्तिप्रमोदितः ॥२४॥

Verse

ब्रह्मादिस्तुतमाहात्म्यो ब्रह्मर्षिगणपूजितः । वर्णाश्रमरतो वर्णाश्रमधर्मनियामकः ॥२५॥

Verse

रक्षापरो राजवंशप्रतिष्ठापनतत्परः । रक्षावहः गन्धर्वहिंसासंहारी धृतिमान्दीनवत्सलः ॥२६॥

Verse

ज्ञानोपदेष्टा वेदान्तवेद्यो भक्तप्रियङ्करः । वैकुण्ठवासी पायान्नश्चराचरविमुक्तिदः ॥२७॥

Verse

इति श्रीरामरहस्योक्तं श्रीरामाष्टोत्तरशतनामस्त्तोरं सम्पूर्णम् ।

śrīrāmāṣṭottaraśatanāmastotram
śrīrāhu aṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms