Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīrāhu aṣṭottaraśatanāmastotram

श्रीराहु अष्टोत्तरशतनामस्तोत्रम्

Verse

राहु बीज मन्त्र - ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः ॥

Verse

शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः । सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥१॥

Verse

फणिर्गार्ग्यायनस्तथा सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः । सुरारिर्नील खड्गखेटकधारी च वरदायकहस्तकः ॥२॥

Verse

शूलायुधो मेघवर्णः कृष्णध्वजपताकावान् । वर्णो पताकवान् दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥३॥

Verse

दंष्ट्राकरालकः शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः । माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ॥४॥

Verse

काश्यप उल्कापातयिताशुली निधिपः कृष्णसर्पराट् । उल्कापातजनिः शूली विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ॥५॥

Verse

शात्रवप्रदः रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः । द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ॥६॥

Verse

क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः । किरीटी नीलवसनः शनिसामन्तवर्त्मगः ॥७॥

Verse

चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा । शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥८॥

Verse

उपरागकरस्सूर्यहिमांषुच्छविहारकः । var उपरागकरस्सोम सूर्यच्छवि विमर्दकः नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥९॥

Verse

कबन्धमात्रदेहश्च यातुधानकुलोद्भवः । गोविन्दवरपात्रं च देवजातिप्रविष्टकः ॥१०॥

Verse

क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः । मानेगङ्गास्नानदाता स्वगृहे प्रबलाढ्यकः ॥११॥

Verse

सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः । चन्द्रयुक्ते तु चण्डालजन्मसूचक एव तु ॥१२॥

Verse

जन्मसिंहे राज्यदाता महाकायस्तथैव च । जन्मकर्ता विधुरिपु मत्तकोज्ञानदश्च सः ॥१३॥

Verse

जन्मकन्याराज्यदाता जन्महानिद एव च । नवमे पितृहन्ता च पञ्चमे शोकदायकः ॥१४॥

Verse

द्यूने कळत्रहन्ता च सप्तमे कलहप्रदः । षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥१५॥

Verse

नवमे पापदाता च दशमे शोकदायकः । आदौ यशःप्रदाता च अन्ते वैरप्रदायकः ॥१६॥

Verse

कालात्मा गोचराचारो धने चास्य ककुत्प्रदः । पञ्चमे धिषणाशृङ्गदः स्वर्भानुर्बली तथा ॥१७॥

Verse

महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः । सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा ॥१८॥

Verse

पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः । दीर्घकृष्णोतनुर्विष्णुनेत्रारिर्देवदानवौ ॥१९॥

Verse

भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः । एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥२०॥

Verse

श्रद्धया यो जपेन्नित्यं मुच्यते सर्व सङ्कटात् । सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः ॥२१॥

Verse

॥ इति राहु अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

śrīrāmarahasyokta śrīrāmāṣṭottaraśatanāmastotram
śrīreṇukā aṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms