Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīreṇukā aṣṭottaraśatanāmastotram

श्रीरेणुका अष्टोत्तरशतनामस्तोत्रम्

Verse

॥ श्री भगवत्यै रेणुकाजगदम्बायै नमोनमः ॥

Verse

ॐ अस्य श्री रेणुका देव्यष्टोत्तरशत नामावलिस्तोत्रमहामन्त्रस्य शाण्डिल्य महर्षिः अनुष्टुप् छन्दः श्रीजगदम्बा रेणुका देवता ॐ बीजं नमः शक्तिः ॐ महादेवीति कीलकं श्री जगदम्बा रेणुका प्रसादसिद्ध्यर्थं सर्वं पापक्षय द्वारा श्रीजगदम्बारेणुकाप्रीत्यर्थं सर्वाभीष्ट फल प्राप्त्यर्थं च जपे विनियोगः ।

Verse

अथ करन्यासः ॐ ह्रां रेणुकायै नमः अङ्गुष्ठाभ्यां नमः ।

Verse

ॐ ह्रीं राममात्रे नमः तर्जनीभ्यां नमः ।

Verse

ॐ ह्रूं महापुरुषवासिन्यै नमः मध्यमाभ्यां नमः ।

Verse

ॐ ह्रैं एकवीरायै नमः अनामिकाभ्यां नमः ।

Verse

ॐ ह्रौं कालरात्र्यै नमः कनिष्ठिकाभ्यां नमः ।

Verse

ॐ ह्रः एककाल्यै नमः करतलकरपृष्ठाभ्यां नमः ।

Verse

अथ षडङ्गन्यासः ॐ ह्रां रेणुकायै नमः हृदयाय नमः ।

Verse

ॐ ह्रीं राममात्रे नमः शिरसे स्वाहा ।

Verse

ॐ ह्रूं महापुरुषवासिन्यै नमः शिखायै वषट् ।

Verse

ॐ ह्रैं एकवीरायै नमः कवचाय हुं ।

Verse

ॐ ह्रौं कालरात्र्यै नमः नेत्रत्रयाय वौषट् ।

Verse

ॐ ह्रः एककाल्यै नमः अस्त्राय फट् ।

Verse

अथ देहन्यासः ॐ ह्रां रेणुकायै नमः शिरसे स्वाहा ।

Verse

ॐ ह्रीं राममात्रे नमः मुखे ।

Verse

ॐ ह्रूं महापुरुषवासिन्यै नमः हृदये ।

Verse

ॐ ह्रैं एकवीरायै नमः गुह्ये ।

Verse

ॐ ह्रौं कालरात्र्यै नमः पादयोः ।

Verse

ॐ ह्रः एककाल्यै नमः सर्वाङ्गे ।

Verse

ॐ भूर्भुवः स्वः इति दिग्बन्धः । ध्यानम् ध्यायेन्नित्यमपूर्ववेशललितां कन्दर्प लावण्यदां देवीं देवगणैरुपास्यचरणां कारुण्यरत्नाकराम् ॥

Verse

लीलाविग्रहणीं विराजितभुजां सच्चन्द्रहासादिभिर्- भक्तानन्दविधायिनीं प्रमुदितां नित्योत्सवां रेणुकाम् ॥

Verse

ॐ जगदम्बा जगद्वन्द्या महाशक्तिर्महेश्वरी । महादेवी महाकाली महालक्ष्मीः सरस्वती ॥

Verse

महावीरा महारात्रिः कालरात्रिश्च कालिका । सिद्धविद्या राममाता शिवा शान्ता ऋषिप्रिया ॥

Verse

नारायणी जगन्माता जगद्बीजा जगत्प्रभा । चन्द्रिका चन्द्रचूडा च चन्द्रायुधधराशुभा ॥

Verse

भ्रमराम्बा तथानन्दा रेणुका मृत्युनाशिनी । दुर्गमा दुर्लभा गौरी दुर्गा भर्गकुटुम्बिनी ॥

Verse

कात्यायनी महामाता रुद्राणी चाम्बिका सती । कल्पवृक्षा कामधेनुः चिन्तामणिरूपधारिणी ॥

Verse

सिद्धाचलवासिनी च सिद्धवृन्दसुशोभिनी । ज्वालामुखी ज्वलत्कान्ता ज्वालाप्रज्वलरूपिणी ॥

Verse

अजा पिनाकिनी भद्रा विजया विजयोत्सवा । कुष्ठरोगहरा दीप्ता दुष्टासुरगर्वमर्दिनी ॥

Verse

सिद्धिदा बुद्धिदा शुद्धा नित्यानित्यतपःप्रिया । निराधारा निराकारा निर्माया च शुभप्रदा ॥

Verse

अपर्णा चान्नपूर्णा च पूर्णचन्द्रनिभानना । कृपाकरा खड्गहस्ता छिन्नहस्ता चिदम्बरा ॥

Verse

चामुण्डी चण्डिकानन्ता रत्नाभरणभूषिता । विशालाक्षी च कामाक्षी मीनाक्षी मोक्षदायिनी ॥

Verse

सावित्री चैव सौमित्री सुधा सद्भक्तरक्षिणी । शान्तिश्च शान्त्यतीता च शान्तातीततरा तथा ॥

Verse

जमदग्नितमोहन्त्री धर्मार्थकाममोक्षदा । कामदा कामजननी मातृका सूर्यकान्तिनी ॥

Verse

मन्त्रसिद्धिर्महातेजा मातृमण्डलवल्लभा । लोकप्रिया रेणुतनया भवानी रौद्ररूपिणी ॥

Verse

तुष्टिदा पुष्टिदा चैव शाम्भवी सर्वमङ्गला । एतदष्टोत्तरशत नामस्तोत्रं पठेत् सदा ॥

Verse

सर्वं सम्पत्करं दिव्यं सर्वाभीष्टफलप्रदम् । अष्टसिद्धियुतं चैव सर्वपापनिवारणम् ॥

Verse

दिग्बन्धन शान्तिमन्त्राः इन्द्रादि दिग्पालकाः स्वस्थस्थानेषु स्थिरी भवन्तु ।

Verse

ॐ शान्तिः शान्तिः शान्तिः ।

Verse

इति श्री शाण्डिल्यमहर्षिविरचिता श्रीरेणुकादेव्यष्टोत्तरशतनामावलिः सम्पूर्णा ।

śrīrāhu aṣṭottaraśatanāmastotram
śrīlalitāmbikā divyāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms