Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrī sudarśanāṣṭottaraśatanāma stotraṃ

श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं

Verse

॥श्रीः॥

Verse

सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः । सहस्रबाहुर्दीप्ताङ्गः अरुणाक्षः प्रतापवान् ॥१॥

Verse

अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः । सौदामिनीसहस्राभः मणिकुण्डलशोभितः ॥२॥

Verse

पञ्चभूतमनोरूपो षट्कोणान्तरसंस्थितः । हरान्तः करणोद्भूतरोषभीषणविग्रहः ॥३॥

Verse

हरिपाणिलसत्पद्मविहारारमनोहरः । श्राकाररूपस्सर्वज्ञः सर्वलोकार्चितप्रभुः ॥४॥

Verse

चतुर्दशसहस्रारः चतुर्वेदमयोऽनलः । भक्तचान्द्रमसज्योतिः भवरोगविनाशकः ॥५॥

Verse

रेफात्मको मकारश्च रक्षोसृग्रूषिताङ्गकः । सर्वदैत्यग्रीवनालविभेदनमहागजः ॥६॥

Verse

भीमदंष्ट्रोज्ज्वलाकारो भीमकर्मा विलोचनः । नीलवर्त्मा नित्यसुखो निर्मलश्रीर्निरञ्जनः ॥७॥

Verse

रक्तमाल्यांबरधरो रक्तचन्दनरूषितः । रजोगुणाकृतिश्शूरो रक्षःकुलयमोपमः ॥८॥

Verse

नित्यक्षेमकरः प्राज्ञः पाषण्डजनखण्डनः । नारायणाज्ञानुवर्ती नैगमान्तःप्रकाशकः ॥९॥

Verse

बलिनन्दनदोर्दण्डखण्डनो विजयाकृतिः । मित्रभावी सर्वमयो तमोविध्वंसकस्तथा ॥१०॥

Verse

रजस्सत्त्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत् । हरिमायागुणोपेतोऽव्ययोऽक्षस्वरूपभाक् ॥११॥

Verse

परमात्मा परंज्योतिः पञ्चकृत्यपरायणः । ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभामयः ॥१२॥

Verse

सदसत्परमः पूर्णो वाङ्मयो वरदोऽच्युतः । जीवो गुरुर्हंसरूपः पञ्चाशत्पीठरूपकः ॥१३॥

Verse

मातृकामण्डलाध्यक्षो मधुध्वंसी मनोमयः । बुद्धिरूपश्चित्तसाक्षी सारो हंसाक्षरद्वयः ॥१४॥

Verse

मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रमयो विभुः । स्रष्टा क्रियास्पदश्शुद्धः आधारश्चक्ररूपकः ॥१५॥

Verse

निरायुधो ह्यसंरम्भः सर्वायुधसमन्वितः । ओम्काररूपी पूर्णात्मा आंकारस्साध्यबन्धनः ॥१६॥

Verse

ऐंकारो वाक्प्रदो वग्मी श्रींकारैश्वर्यवर्धनः । क्लींकारमोहनाकारो हुंफट्क्षोभणाकृतिः ॥१७॥

Verse

इन्द्रार्चितमनोवेगो धरणीभारनाशकः । वीराराध्यो विश्वरूपः वैष्णवो विष्णुरूपकः ॥१८॥

Verse

सत्यव्रतः सत्यधरः सत्यधर्मानुषङ्गकः' नारायणकृपाव्यूहतेजश्चक्रस्सुदर्शनः ॥१९॥

Verse

॥ श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं संपूर्णम॥

śrī sītā aṣṭottaraśatanāmastotram
śrīrāmāṣṭottaraśatanāmastotram

Read next

More on सुदर्शनाष्टोत्तरशतनाम

  • श्रीसुदर्शनाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms