aSTottaranAma
śivāṣṭottaraśatanāmastotram
शिवाष्टोत्तरशतनामस्तोत्रम्
Verse
शिवो महेश्वरः शंभुः पिनाकी शशिशेखरः वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१-९॥
Verse
शंकरः शूलपाणिश्च खट्वांगो विष्णुवल्ल्लभः शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः । ॥
Verse
भवश्शर्वस्त्रिलोकेशः शितिकण्ठो शिवाप्रियः उग्रः कपर्दी कामारिः अन्धकासुरसूदनः ॥१८-२६॥
Verse
गंगाधरो ललाटाक्षः कालकालो कृपानिधिः भीमः परशुहस्तश्च मृगपाणी जटाधरः ॥२७-३४॥
Verse
कैलासवासी कवची कठोरः त्रिपुरान्तकः वृषाङ्को वृषभारूढः भस्मोद्धूलितविग्रहः ॥३५-४१॥
Verse
सामप्रियो स्वरमयः त्रयीमूर्तिरनीश्वरः सर्वज्ञो परमात्मा च सोमसूर्याग्निलोचनः ॥४२-४८॥
Verse
हविर्यज्ञमयस्सोमः पञ्चवक्त्रो सदाशिवः विश्वेश्वरो वीरभद्रः गणनाथः प्रजापतिः ॥४९-५७॥
Verse
हिरण्यरेता दुर्धर्षो गिरीशः गिरिशोऽनघः भुजंगभूषणो भर्गः गिरिधन्वा गिरिप्रियः ॥५८-६६॥
Verse
कृत्तिवासा पुरारातिः भगवान् प्रमथाधिपः मृत्युंजयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥६७-७४॥
Verse
व्योमकेशो महासेनजनकश्चारुविक्रमः रुद्रो भूतपति स्थाणुः अहिर्बुध्न्यो दिगंबरः ॥७५-८२॥
Verse
अष्टमूर्तिरनेकात्मा सात्त्विको शुद्धविग्रहः शाश्वतः खण्डपरशुः अजः पापविमोचनः ॥८३-९०॥
Verse
मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः भगनेत्रभिदव्यक्तो दक्षाध्वरहरो हरः ॥९१-१००॥
Verse
पूषदन्तभिदव्यग्रो सहस्राक्षः सहस्रपात् अपवर्गप्रदोऽनन्तः तारको परमेश्वरः ॥१०१-१०८॥
