aSTottaranAma
andhakadhyātaṃ śivāṣṭottaraśatanāmastotram 4
अन्धकध्यातं शिवाष्टोत्तरशतनामस्तोत्रम् ४
Verse
ददर्श शूले संशुष्कं ध्यायन्तं परमेश्वरः । अन्धकं धैर्यसम्पन्नं दानवेशं तपस्विनम् ॥४॥
Verse
अन्धक उवाच ।
Verse
ॐ महादेवो विरूपाक्षः चन्द्रार्द्धकृतशेखरः । अमृतः शाश्वतः स्थाणुः नीलकण्ठः पिनाकधृक् ॥५॥
Verse
वृषभाक्षो महाज्ञेयः पुरुषः सर्वकामदः । कामारिः कामदहनः कामरूपः कपर्दधृक् ॥६॥
Verse
विरूपो गिरिशो भीमः स्रग्वी च रक्तवासधृक् । योगी च कालदहनः कपाली त्रिपुरान्तकः ॥७॥
Verse
गूढव्रतो गुप्तमन्त्रः गम्भीरो भावगोचरः । अणिमादिगुणाधारस्त्रैलोक्यैश्वर्यदायकः ॥८॥
Verse
वीरो वीरहणो घोरः विरूपो मांसलः पटुः । महामांसाद उन्मत्तः भैरवो वै महेश्वरः ॥९॥
Verse
त्रैलोक्यद्रावणो लुब्धः लुब्धको यज्ञसूदनः । कृत्तिकानां सुतैर्युक्त उन्मत्तः कृत्तिवासधृक् ॥१०॥
Verse
गजकृत्तिपरीधानः क्षुब्धो भुजगभूषणः । दत्तालम्बश्च वेतालः घोरश्शाकिनिपूजितः ॥११॥
Verse
अघोरो घोरदैत्यघ्नः घोरघोषो वनस्पतिः । भस्माङ्गो जटिलश्शुद्धो भेरुण्डशतसेवितः ॥१२॥
Verse
भूतेश्वरो भूतनाथः पञ्चभूताश्रितः खगः । क्रोधितो निष्ठुरश्चण्डः चण्डीशश्चण्डिकाप्रियः ॥१३॥
Verse
चण्डस्तुङ्गश्च गरुत्मान् नित्यमासवभोजनः । लेलिहानो महारौद्रः मृत्युर्मृत्योरगोचरः ॥१४॥
Verse
मृत्योर्मृत्युर्महासेनः श्मशानारण्यवासकृत् । रागो विरागो रागान्धः वीतरागशताचितः ॥१५॥
Verse
सत्त्वं रजस्तमोधर्ममधर्मं वासवानुजः । सत्यं त्वसत्यं सद्रूपमसद्रूपमहेतुकम् ॥१६॥
Verse
अर्द्धनारीश्वरो भानुः भानुकोटिशतप्रभः । यज्ञो यज्ञपती रुद्र ईशानो वरदः शिवः ॥१७॥
Verse
अष्टोत्तरशतं ह्येतन्मूर्तीनां परमात्मनः । शिवस्य दानवो ध्यायन्मुक्तस्तस्मान्महाभयात् ॥१८॥
Verse
दिव्येनामृतवर्षेण सोऽभिषिक्तः कपर्दिना । तुष्टेन मोचितस्तस्माच्छूलाग्रादवरोपितः ॥१९॥
Verse
इति शिवपुराणे रुद्रसंहितायां युद्धखण्डे एकोनपञ्चाश- त्तमाध्यायान्तर्गतं अन्धकेन ध्यातं शिवाष्टोत्तरशत- नामस्तोत्रं समाप्तम् ।
