aSTottaranAma
śrīśukrāṣṭottaraśatanāmastotram
श्रीशुक्राष्टोत्तरशतनामस्तोत्रम्
Verse
शुक्र बीज मन्त्र - ॐ द्राँ द्रीं द्रौं सः शुक्राय नमः ॥
Verse
शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः । शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः ॥१॥
Verse
दीनार्तिहारको दैत्यगुरुः देवाभिवन्दितः । काव्यासक्तः कामपालः कविः कळ्याणदायकः ॥२॥
Verse
भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः । भोगदो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः ॥३॥
Verse
चारुशीलश्चारुरूपश्चारुचन्द्रनिभाननः । निधिर्निखिलशास्त्रज्ञो नीतिविद्याधुरन्धरः ॥४॥
Verse
सर्वलक्षणसम्पन्नः सर्वापद्गुणवर्जितः । समानाधिकनिर्मुक्तः सकलागमपारगः ॥५॥
Verse
भृगुर्भोगकरो भूमिसुरपालनतत्परः । मनस्वी मानदो मान्यो मायातीतो महाषयः ॥६॥
Verse
बलिप्रसन्नोऽभयदो बली बलपराक्रमः । भवपाशपरित्यागो बलिबन्धविमोचकः ॥७॥
Verse
घनाशयो घनाध्यक्षो कम्बुग्रीवः कळाधरः । कारुण्यरससम्पूर्णः कळ्याणगुणवर्धनः ॥८॥
Verse
श्वेताम्बरः श्वेतवपुः चतुर्भुजसमन्वितः । अक्षमालाधरोऽचिन्त्यः अक्षीणगुणभासुरः ॥९॥
Verse
नक्षत्रगणसञ्चारो नयदो नीतिमार्गदः । वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः ॥१०॥
Verse
चिन्तितार्थप्रदः शान्तमतिः चित्तसमाधिकृत् । आधिव्याधिहरो भूरिविक्रमः पुण्यदायकः ॥११॥
Verse
पुराणपुरुषः पूज्यः पुरुहूतादिसन्नुतः । अजेयो विजितारातिर्विविधाभरणोज्ज्वलः ॥१२॥
Verse
कुन्दपुष्पप्रतीकाशो मन्दहासो महामतिः । मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः ॥१३॥
Verse
रत्नसिंहासनारूढो रथस्थो रजतप्रभः । सूर्यप्राग्देशसञ्चारः सुरशत्रुसुहृत् कविः ॥१४॥
Verse
तुलावृषभराशीशो दुर्धरो धर्मपालकः । भाग्यदो भव्यचारित्रो भवपाशविमोचकः ॥१५॥
Verse
गौडदेशेश्वरो गोप्ता गुणी गुणविभूषणः । ज्येष्ठानक्षत्रसम्भूतो ज्येष्ठः श्रेष्ठः शुचिस्मितः ॥१६॥
Verse
अपवर्गप्रदोऽनन्तः सन्तानफलदायकः । सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः ॥१७॥
Verse
एवं शुक्रग्रहस्यैव क्रमादष्टोत्तरं शतम् । सर्वपापप्रशमनम् सर्वपुण्यफलप्रदम् ॥१८॥
Verse
यः पठेच्छ्रुणुयाद्वापि सर्वान्कामानवाप्नुयात् ॥१९॥
