aSTottaranAma
śrīśivāṣṭottaraśatanāmastotram
श्रीशिवाष्टोत्तरशतनामस्तोत्रम्
Verse
ॐ श्रीकण्ठो वरदः शर्व आशुतोष उमापतिः । दयानिधिर्महादेवो भवो भवहरो हरः ॥१॥
Verse
मदनारिस्त्रिनयनः शङ्करः सुकविः शिवः । विभुः प्रभुर्वृषरथो विवेकी विशदो वशी ॥२॥
Verse
ललाटाक्षः कालकालः शरण्यश्चन्द्रशेखरः । पुरारातिः श्रितहितो देवदेवः सदाशिवः ॥३॥
Verse
शान्त उग्रः समः श्रेष्ठो भूतेशो भव्यविग्रहः । परमेशः परानन्दः परिपूर्णः पदप्रदः ॥४॥
Verse
मधुरो महितः शम्भुर्गिरीशो गिरिशो मृडः । अजः पिनाकी प्रवरः प्रबलः प्रमथाधिपः ॥५॥
Verse
मानदः पञ्चवदनो दशबाहुर्दिगम्बरः । शूली कपाली सुमुखो मृगपाणिर्जटाधरः ॥६॥
Verse
शाश्वतोऽतिमहाः स्वामी गिरिधन्वा गुरूत्तमः । रुद्रो जयप्रदो जेता भुजगाभूषणोऽव्ययः ॥७॥
Verse
पुराणः पुण्डरीकाक्षप्रियः प्रणव उद्धवः । कर्पूरगौरः सुतपाः सामतुष्टः प्रजापतिः ॥८॥
Verse
महाव्रतः सुरमणिः सत्यसन्धो विनायकः । अन्धकारातिरजितः सदोदारो निरञ्जनः ॥९॥
Verse
दीनबन्धुर्दक्षहन्ता विरागो नीललोहितः । सेव्यः साक्षी कृती नेता उदासीनः सतां गतिः ॥१०॥
Verse
माता पिता सखा भर्ता सकलाधिनिवारकः । बहुरूपो वेदसारो विद्यानाथः शिवायनः ॥११॥
Verse
निरमित्रो निरवधिर्निरविद्यो निरामयः । मोक्षप्रदमिदं नाम्नां शम्भोरष्टोत्तरं शतम् ॥१२॥
Verse
इति श्रीमयूरकृतेषु संस्कृतकाव्येषु श्रीशिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
