aSTottaranAma
śrīśivāṣṭottaraśatanāmastotram
श्रीशिवाष्टोत्तरशतनामस्तोत्रम्
Verse
पार्वत्युवाच - शरीरार्धमहं शम्भोर्येन प्राप्स्यामि केशव । तदिदानीं समाचक्ष्व स्तोत्रं शीघ्रफलप्रदम् ॥
Verse
नारायण उवाच ।
Verse
अस्ति गुह्यतमं गौरि नाम्नामष्टोत्तरं शतम् । शम्भोरहं प्रवक्ष्यामि पठतां शीघ्रकामदम् ॥
Verse
ॐ अस्य श्रीशिवाष्टोत्तरशतदिव्यनामस्तोत्रमालामन्त्रस्य नारायणऋषिः ।
Verse
अनुष्टुप्छन्दः ।
Verse
श्रीसदाशिवः परमात्मा देवता ।
Verse
गौरी उमा शक्तिः । श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥
Verse
अथ ध्यानम् - शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् । गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥
Verse
धवलवपुषमिन्दोर्मण्डले संनिविष्टं भुजगवलयहारं भस्मदिग्धाङ्गमीशम् । हरिणपरशुपाणिं चारुचन्द्रार्धमौलिं हृदयकमलमध्ये सन्ततं चिन्मयामि ॥
Verse
श्रीविष्णुरुवाच ।
Verse
ॐ शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरः । वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥
Verse
शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः । शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२॥
Verse
भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवाप्रियः । उग्रः कपाली कामारिरन्धकासुरसूदनः ॥३॥
Verse
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः । भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥
Verse
कैलासवासी कवची कठोरस्त्रिपुरान्तकः । वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥
Verse
सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः । सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥६॥
Verse
हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः । विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥
Verse
हिरण्यरेता दुर्धर्षः गिरीशो गिरिशोऽनघः । भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥८॥
Verse
कृत्तिवासा पुरारातिर्भगवान् प्रमथाधिपः । मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥
Verse
व्योमकेशो महासेनजनकश्चारुविक्रमः । रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥
Verse
अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः । शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥११॥
Verse
मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः । (महादेवोऽव्ययः प्रभुः) पूषादन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥१२॥
Verse
भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात् । अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥
Verse
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Verse
फलश्रुतिः ।
Verse
एतदष्टोत्तरं नाम्नां शतमाम्नायसंमितम् । (विष्णुना कथितं पूर्वं पार्वत्या इष्टसिद्धये ।) शङ्करस्य प्रिया गौरी जप्त्वा शम्भुप्रसाददम् ॥१॥
Verse
त्रैकाल्यमन्वहं देवी वर्षमेकं प्रयत्नतः । अवाप सा शरीरार्धं प्रसादाच्छूलपाणिनः ॥२॥
Verse
यस्त्रिसन्ध्यं पठेन्नित्यं नाम्नामष्टोत्तरं शतम् । शतरुद्रत्रिरावृत्या यत्फलं लभते नरः ॥३॥
Verse
तत्फलं प्राप्नुयान्नित्यमेकावृत्त्या नसंशयः । सकृद्वा नामभिः पूज्य कुलकोटिं समुद्धरेत् ॥४॥
Verse
बिल्वपत्रैः प्रशस्तैश्च पुष्पैश्च तुलसीदलैः । तिलाक्षतैर्यजेद्यस्तु जीवन्मुक्तो न संशयः ॥५॥
Verse
नाम्नामेषां पशुपतेरेकमेवापवर्गदम् । अन्येषां चावशिष्टाना फलं वक्तुं न शक्यते ॥६॥
Verse
इति श्रीशिवाष्टोत्तरशतदिव्यनामामृतस्तोत्रं सम्पूर्णम् ॥
