aSTottaranAma
śarabheśvarāṣṭottaraśatanāmastotram
शरभेश्वराष्टोत्तरशतनामस्तोत्रम्
Verse
वीरशैवस्तोत्राणि द्वितीयो भागः ॥अध्यायः १७।
Verse
नृसिंह उवाच ।
Verse
ॐ नमो रुद्राय रौद्राय महाग्रासाय जिष्णवे । नम उग्राय भीमाय नमः क्रुद्धाय मन्यवे ॥१॥
Verse
नमो भवाय शर्वाय शङ्कराय शिवाय ते । कालाय कालकालाय महाकालाय मृत्यवे ॥२॥
Verse
वीराय वीरभद्राय क्षयद्वीराय शूलिने । महादेवाय महते पशूनां पतये नमः ॥३॥
Verse
एकाय नीलकण्ठाय श्रीकण्ठाय पिनाकिने । नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमृत्यवे ॥४॥
Verse
पराय परमेशाय परात्परतराय ते । परापराय विश्वाय नमस्ते विश्वमूर्तये ॥५॥
Verse
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे । भैरवाय शरण्याय महाभैरवरूपिणे ॥६॥
Verse
नमो नृसिंहसंहर्त्रे कालकालपुरारये । नमः पाशौघसंहर्त्रे विष्णुमायान्तकारिणे ॥७॥
Verse
त्र्यम्बकाय त्रियक्षाय शिपिविष्टाय मीढुषे । मृत्युञ्जयाय शर्वाय सर्वज्ञाय मखारये ॥८॥
Verse
खखोल्काय वरेण्याय नमस्ते वह्नि रेतसे । महाप्राणाय जीवाय प्राणापानप्रवर्तिने ॥९॥
Verse
त्रिगुणाय त्रिशूलाय गुणातीताय योगिने । संसारयन्त्रवाहाय महायन्त्रप्रवर्तिने ॥१०॥
Verse
नमश्चिद्व्योमसूर्याय मूर्तिवैचित्र्यहेतवे । वरदाय विकाराय सर्वकारणहेतवे ॥११॥
Verse
कपालिने करालाय पतये पुण्यमूर्तये । अघोरायाग्निनेत्राय अकुलीशाय शम्भवे ॥१२॥
Verse
भिषक्तमाय चण्डाय दण्डिने घोररूपिणे । मेघवाहाय देवाय पार्वतीपतये नमः ॥१३॥
Verse
अव्यक्ताय विशोकाय स्थिराय स्थिरधन्विने । स्थाणवे कृत्तिवासाय नमः पञ्चार्थहेतवे ॥१४॥
Verse
विरजायैकपादाय नमश्चन्द्रार्धमौलये । नमस्तेऽध्वरराजाय वचसां पतये नमः ॥१५॥
Verse
योगीश्वराय सत्याय नित्याय परमात्मने । सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते ॥१६॥
Verse
एकद्वित्रिचतुश्पञ्चकृत्वस्ते च नमो नमः । दशकृत्वः शतकृत्वः आसहस्रं नमो नमः ॥१७॥
Verse
नमो परिमितं कृत्वोऽनन्तकृत्वो नमो नमः । नमो नमो नमो भूयः पुनर्भूयो नमो नमः ॥१८॥
Verse
सूत उवाच । नामाष्टकशतेनैवं स्तुत्वाऽमृतमयेने तु ॥१९॥
Verse
इति श्रीमन्नीलकण्ठनागनाथाचार्यवर्यविरचिते श्रीमद्वीरमाहेश्वराचारसङ्ग्रहे नृसिंहप्रोक्तं शरभेश्वराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
