Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

liṅgapurāṇoktaṃ śrīnṛsiṃhakṛta śarabhastotram

लिङ्गपुराणोक्तं श्रीनृसिंहकृत शरभस्तोत्रम्

Verse

ॐ श्रीगणेशाय नमः ।

Verse

अथ आकाशतन्त्रे एकोनाशीतितमोऽध्यायः शरभाष्टोत्तरशतनामस्तोत्रम् श्रीशिव उवाच - अस्य श्रीशरभाष्टोत्तरशतनाममहामन्त्रस्य योगानन्द ऋषिः अनुष्टुप्छन्दः श्रीमदघोरवीरशरभेश्वरो देवता, खं बीजम्, स्वाहाशक्तिः, फट् कीलकम्, श्रीमच्छरभसालुवाष्टोत्तरशतनाम सिद्ध्यर्थे जपे विनियोगः ।

Verse

ध्यानम् - अष्टाङ्घ्रिश्च सहस्रबाहुरनलच्छाया शिरोयुग्मधृग्- यस्त्र्यक्षो द्विखुपुच्छउदितः साक्षान्नृसिंहासनः । अर्धेनापि मृगाकृतिः पुनरथाप्यर्धेन पक्ष्याकृतिः श्री वीरः शलभः स पातु शलभश्चिन्त्यः सदा मां हृदि ॥

Verse

श्रीनृसिंह उवाच - नमो रुद्राय शर्वाय महाग्रासाय जिष्णवे ॥१॥

Verse

नम उग्राय भीमाय नमः क्रोधाय मन्यवे । नमो भवाय शर्वाय शङ्कराय शिवाय ते ॥२॥

Verse

कालकालाय कालाय महाकालाय मृत्यवे । वीराय वीरभद्राय क्षयद्वीराय शूलिने ॥३॥

Verse

महादेवाय महते पशूनां पतये नमः । एकाय नीलकण्ठाय श्रीकण्ठाय पिनाकिने ॥४॥

Verse

नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमृत्यवे । पराय परमेशाय परात्परतराय ते ॥५॥

Verse

(तत्पराय परमात्मने) परापराय विश्वाय नमस्ते विश्वमूर्तये । (परात्पराय, विश्वमूर्त्तये) नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ॥६॥

Verse

कैवर्ताय किराताय महाव्याधाय शाश्वते । भैरवाय शर्वाय शरण्याय महाभैरवरूपिणे ॥७॥

Verse

(शरव्याय) नमो नृसिंहसंहर्त्रे कामकालपुरारये । महापाशौघसंहर्त्रे विष्णुमायान्तकारिणे ॥८॥

Verse

त्र्यम्बकाय त्र्यक्षराय शिपिविष्टाय मीढुषे । मृत्युञ्जयाय शर्वाय सर्वज्ञाय मखारये ॥९॥

Verse

मखेशाय वरेण्याय नमस्ते वह्निरूपिणे । महाघ्राणाय जिह्वाय प्राणापानप्रवर्त्तिने ॥१०॥

Verse

त्रिगुणाय त्रिशूलाय गुणातीताय योगिने । संसाराय प्रवाहाय महायन्त्रप्रवर्तिने ॥११॥

Verse

नमश्चन्द्राग्निसूर्याय मूर्तिवैचित्र्यहेतवे । वरदायावताराय सर्वकारणहेतवे ॥१२॥

Verse

कपालिने करालाय पतये पुण्यकीर्त्तये । अघोरायाग्निनेत्राय लकुलीशाय शम्भवे ॥१३॥

Verse

भिषक्तमाय चण्डाय दण्डिने घोररूपिणे । मेघवाहाय देवाय पार्वतीपतये नमः ॥१४॥

Verse

अव्यक्ताय विशोकाय स्थिराय स्थिरधन्वने । स्थाणवे कृत्तिवासाय नमः पञ्चार्थहेतवे ॥१५॥

Verse

वरदायैकपादाय नमश्चन्द्रार्धमौलिने । नमस्तेऽध्वरराजाय वचसां पतये नमः ॥१६॥

Verse

योगीश्वराय नित्याय सत्याय परमेष्ठिने । सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते ॥१७॥

Verse

एकद्वित्रिचतुः पञ्चचकृत्वस्तेऽस्तु नमो नमः । दशकृत्वस्तु साहस्रकृत्वस्ते च नमो नमः ॥१८॥

Verse

(दशकृत्वः शतकृत्वः सहस्रकृत्वो नमो नमः ॥

Verse

नमो परिमितं कृत्वानन्तकृत्वो नमो नमः । नमो नमो नमो भूयः पुनर्भूयो नमो नमः ॥१९॥

Verse

सूत उवाच - नाम्नामष्टशतेनैव स्तुत्वाऽमृतये न तु । पुनस्तु प्रार्थयामास नृसिंहं शरभेश्वरम् ॥२०॥

Verse

यदा यदा ममाज्ञानमत्यहङ्कारदूषितम् । तदा तदाऽपनेतव्यं त्वयैव परमेश्वरः ॥२१॥

Verse

एवं विज्ञापयन्प्रीतः शंङ्करं नरकेसरी । नन्वशक्तो भवान्विष्णो! जीवितान्तं पराजितः ॥२२॥

Verse

तद्वक्त्रशेषमात्रान्तं कृत्वा शर्वस्य विग्रहम् । शुक्तिशित्यं तदामङ्गं वीरभद्रः क्षणात्ततः ॥२३॥

Verse

इति लिङ्गपुराणोक्तं श्रीनृसिंहकृतं शरभस्तोत्रं सम्पूर्णम् ॥

Verse

- ॥लिङपुराणम् ।

Verse

पूर्वभागः ।

Verse

अध्यायः ९६। ॥

Verse

- ॥आकाशभैरवकल्पम् । अध्यायः ७९॥

Verse

- ॥वीरमाहेश्वराचारसङ्ग्रः ।

Verse

द्वितीयभागः ।

Verse

अध्यायः १७। ॥

śrīśani aṣṭottaraśatanāmastotram
śarabheśvarāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms