aSTottaranAma
śrīkṛṣṇāṣṭottaraśatanāmastotram
श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीक्रुष्णः कमलानाथो वासुदेवः सनातनः वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥१-७॥
Verse
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः चतुर्भुजात्तचक्रासिगदाशंखाद्युदायुधः ॥८-११॥
Verse
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः यमुनावेगसंहारी बलभद्रप्रियानुजः ॥१२-१६॥
Verse
पूतनाजीवितहरः शकटासुरभञ्जनः नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥१७-२०॥
Verse
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः नवनीतनवाहारो मुचुकुंदप्रसादकः ॥२१-२५॥
Verse
षोडशस्त्रीसहस्रेशो त्रिभंगीललिताकृतिः शुकवागमृताब्धीन्दुः गोविन्दो गोविदां पतिः ॥२६-३०॥
Verse
वत्सवाटचरोऽनन्तो धेनुकासुरमर्द्दनः तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥३१-३५॥
Verse
उत्तालतालभेत्ता च तमालश्यामलाकृतिः गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ॥३६-४०॥
Verse
इलापतिः परंज्योतिः यादवेन्द्रो यदूद्वहः वनमाली पीतवासा पारिजातापहारकः ॥४१-४७॥
Verse
गोवर्धनाचलोद्धर्त्ता गोपालस्सर्वपालकः अजो निरञ्जनः कामजनकः कञ्जलोचनः ॥४८-५४॥
Verse
मधुहा मथुरानाथो द्वारकानायको बली वृन्दावनांतसञ्चारी तुलसीदामभूषणः ॥५५-६०॥
Verse
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः कुब्जाकृष्टांबरधरो मायी परमपूरुषः ॥६१-६५॥
Verse
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः संसारवैरि कंसारी मुरारी नरकान्तकः ॥६६-७०॥
Verse
अनादिब्रह्मचारी च कृष्णाव्यसनकर्शकः शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकः ॥७१-७४॥
Verse
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी ॥७५-८०॥
Verse
सुभद्रापूर्वजो विष्णुः भीष्ममुक्तिप्रदायकः जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥८१-८६॥
Verse
वृषभासुरविध्वंसी बाणासुरबलांतकः युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥८७-९०॥
Verse
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः कालीयफणिमाणिक्यरञ्जितश्रीपदांबुजः ॥९१-९४॥
Verse
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः नारायणः परंब्रह्म पन्नगाशनवाहनः ॥९५-१००॥
Verse
जलक्रीडासमासक्तगोपीवस्त्रापहारकः पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥१०१-१०५॥
Verse
सर्वभूतात्मकस्सर्वग्रहरूपी परात्परः ॥१०६-१०८॥
Verse
एवं कृष्णस्य देवस्य नाम्नामष्टोत्तरं शतं कृष्णनामामृतं नाम परमानन्दकारकं अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम्
