aSTottaranAma
śrīkṛṣṇāṣṭottaraśatanāmastotram
श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
Verse
अगस्त्य उवाच स्तोत्रं तत्ते प्रवक्ष्यामि यस्यार्थं त्वमिहागतः । वाराहाद्यवताराणां चरितं पापनाशनम् ॥११॥
Verse
सुखदं मोक्षदं चैव ज्ञानविज्ञानकारणम् । श्रुत्वा सर्वं धरा वत्स प्रहृष्टा तं धराधरम् ॥१२॥
Verse
उवाच प्रणता भूयो ज्ञातुं कृष्णविचेष्टितम् । धरण्युवाच अलङ्कृतं जन्म पुंसामपि नन्दव्रजौकसाम् ॥१३॥
Verse
तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः । जयोपाधिनियुक्तानि सन्ति नामान्यनेकशः ॥१४॥
Verse
तेषु नामानि मुख्यानि श्रोतुकामा चिरादहम् । तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके ॥१५॥
Verse
नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते । शेष उवाच वसुन्धरे वरारोहे जनानामस्ति मुक्तिदम् ॥१६॥
Verse
सर्वमङ्गलमूर्द्धन्यमणिमाद्यष्टसिद्धिदम् । महापातककोटिघ्नं सर्वतीर्थफलप्रदम् ॥१७॥
Verse
समस्तजपयज्ञानां फलदं पापनाशनम् । शृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ॥१८॥
Verse
सहस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥१९॥
Verse
तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् । नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये ॥२०॥
Verse
छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः । ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ॥२१॥
Verse
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः । श्रीवत्सकौस्तभधरो यशोदावत्सलो हरिः ॥२२॥
Verse
चतुर्भुजात्तचक्रासिगदाशङ्खाद्युदायुधः । देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ॥२३॥
Verse
यमुनावेगसंहारी बलभद्रप्रियानुजः । पूतनाजीवितहरः शकटासुरभञ्जनः ॥२४॥
Verse
नन्दप्रजजनानन्दी सच्चिदानन्दविग्रहः । नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ॥२५॥
Verse
नवनीतलवाहारी मुचुकुन्दप्रसादकृत् । षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ॥२६॥
Verse
शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः । वत्सपालनसञ्चारी धेनुकासुरमर्द्दनः ॥२७॥
Verse
तृणीकृततृणावर्त्तो यमलार्जुनभञ्जनः । उत्तालतालभेत्ता च तमालश्यामला कृतिः ॥२८॥
Verse
गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः । इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ॥२९॥
Verse
वनमाली पीतवासाः पारिजातापहरकः । गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः ॥३०॥
Verse
अजो निरञ्जनः कामजनकः कञ्जलोचनः । मधुहा मथुरानाथो द्वारकानाथको बली ॥३१॥
Verse
वृन्दावनान्तसञ्चारी तुलसीदामभूषणः । स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः ॥३२॥
Verse
कुब्जाकृष्टाम्बरधरो मायी परमपूरुषः । मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥३३॥
Verse
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः । अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥३४॥
Verse
शिशुपालशिरस्छेत्ता दुर्योधनकुलान्तकृत् । विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥३५॥
Verse
सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥३६॥
Verse
जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः । वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् ॥३७॥
Verse
युधिष्टिरप्रतिष्ठाता बर्हिबर्हावतंसकः । पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥३८॥
Verse
कालीयफणिमाणिक्यरञ्जितः श्रीपदांबुजः । दामोदरो यज्ञभोक्ता दानवेद्रविनाशनः ॥३९॥
Verse
नारायणः परं ब्रह्म पन्नगाशनवाहनः । जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥४०॥
Verse
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः । सर्वतीर्थान्मकः सर्वग्रहरूपी परात्परः ॥४१॥
Verse
इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् । कृष्णोन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥४२॥
Verse
स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् । कृष्णप्रेमामृतं नाम परमानन्ददायकम् ॥४३॥
Verse
अत्युपद्रवदुःखघ्नं परमायुष्यवर्धनम् । दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥४४॥
Verse
पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् । पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥४५॥
Verse
धनावहं दरिद्राणां जयेच्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्द्धनम् ॥४६॥
Verse
बालरोगग्रहादीनां शमनं शान्तिकारकम् । अन्ते कृष्णस्मरणदं भवतापत्रयापहम् ॥४७॥
Verse
असिद्धसाधकं भद्रे जपादिकरमात्मनाम् । कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ॥४८॥
Verse
नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने । इमं मन्त्रं महादेवि जपन्नेव दिवा निशम् ॥४९॥
Verse
सर्वग्रहानुग्रहभाक्सर्वप्रियतमो भवेत् । पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ॥५०॥
Verse
निषेव्य भोगानन्तेऽपि कृष्णासायुज्यमाप्नुयात् । अगस्त्य उवाच एतावदुक्तो भागवाननन्तो मूर्त्तिस्तु संकर्षणसंज्ञिता विभो ॥५१॥
Verse
धराधरोऽलं जगतां धरायै निर्दिश्य भूयो विरराम मानदः ।
Verse
ततस्तु सर्वे सनकादयो ये समास्थितास्तत्परितः कथादृताः । आनन्दपूर्णाम्बुनिधौ निमग्नाः सभाजयामासुरहीश्वरं तम् ॥५२॥
Verse
ऋषय ऊचुः नमो नमस्तेऽखिलविश्वाभावन प्रपन्नभक्तार्त्तिहराव्ययात्मन् । धराधरायापि कृपार्णवाय शेषाय विश्वप्रभवे नमस्ते ॥५३॥
Verse
कृष्णामृतं नः परिपायितं विभो विधूतपापा भवता कृता वयम् । भवादृशा दीनदयालवो विभो समुद्धरन्त्येव निजान्हि संनतान् ॥५४॥
Verse
एवं नमस्कृत्य फणीशपादयोर्मनो विधायाखिलकामपूरयोः । प्रदक्षिणीकृत्य धराधराधरं सर्वे वयं स्वावसथानुपागताः ॥५५॥
Verse
इति तेऽभिहितं राम स्तोत्रं प्रेमामृताभिधम् । कृष्णस्य राधाकान्तस्य सिद्धिदम् ॥५६॥
Verse
incomplete metrically इदं राम महाभाग स्तोत्रं परमदुर्लभम् । श्रुतं साक्षाद्भगवतः शेषात्कथयतः कथाः ॥५७॥
Verse
यावन्ति मन्त्रजालानि स्तोत्राणि कवचानि च ॥५८॥
Verse
त्रैलोक्ये तानि सर्वाणि सिद्ध्यन्त्येवास्य शीलनात् ।
Verse
वसिष्ठ उवाच एवमुक्त्वा महाराज कृष्णप्रेमामृतं स्तवम् । यावद्व्यरंसीत्स मुनिस्तावत्स्वर्यानमागतम् ॥५९॥
Verse
चतुर्भिरद्भुतैः सिद्धैः कामरूपैर्मनोजवैः ।
Verse
अनुयातमथोत्प्लुत्य स्त्रीपुंसौ हरिणौ तदा । अगस्त्यचरणौ नत्वा समारुरुहतुर्मुदा ॥६०॥
Verse
दिव्यदेहधरौ भूत्वा शङ्खचक्रादिचिह्नितौ ।
Verse
गतौ च वैष्णवं लोकं सर्वदेवनमस्कृतम् । पश्यतां सर्वभूतानां भार्गवागस्त्ययोस्तथा ॥६१॥
Verse
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते षट्त्रिंशत्तमोऽध्यायः ॥३६॥
