aSTottaranAma
śrīketu aṣṭottaraśatanāmastotram
श्रीकेतु अष्टोत्तरशतनामस्तोत्रम्
Verse
केतु बीज मन्त्र - ॐ स्राँ स्रीं स्रौं सः केतवे नमः ॥
Verse
शृणु नामानि जप्यानि केतो रथ महामते । केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः ॥१॥
Verse
नवग्रहयुतः सिंहिकासुरीगर्भसम्भवः । महाभीतिकरश्चित्रवर्णो वै पिंगळाक्षकः ॥२॥
Verse
स फलोधूम्रसंकाषः तीक्ष्णदंष्ट्रो महोरगः । रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः ॥३॥
Verse
क्रूरकण्ठः क्रोधनिधिश्छायाग्रहविशेषकः । अन्त्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही ॥४॥
Verse
वरहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा । चित्रध्वजपताकश्च घोरश्चित्ररथश्शिखी ॥५॥
Verse
कुळुत्थभक्षकश्चैव वैडूर्याभरण स्तथा । उत्पातजनकः शुक्रमित्रं मन्दसखस्तथा ॥६॥
Verse
गदाधरः नाकपतिः अन्तर्वेदीश्वरस्तथा । जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः ॥७॥
Verse
मुकुन्दवरपात्रं च महासुरकुलोद्भवः । घनवर्णो लम्बदेहो मृत्युपुत्रस्तथैव च ॥८॥
Verse
उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः । नृपीडो ग्रहकारी च सर्वोपद्रवकारकः ॥९॥
Verse
चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः । अपसव्यप्रचारी च नवमे पापदायकः ॥१०॥
Verse
पञ्चमे शोकदश्चोपरागखेचर एव च । अतिपुरुषकर्मा च तुरीये सुखप्रदः ॥११॥
Verse
तृतीये वैरदः पापग्रहश्च स्फोटककारकः । प्राणनाथः पञ्चमे तु श्रमकारक एव च ॥१२॥
Verse
द्वितीयेऽस्फुटवाग्दाता विषाकुलितवक्त्रकः । कामरूपी सिंहदन्तः सत्येऽप्यनृतवानपि ॥१३॥
Verse
चतुर्थे मातृनाशश्च नवमे पितृनाशकः । अन्त्ये वैरप्रदश्चैव सुतानन्दनबन्धकः ॥१४॥
Verse
सर्पाक्षिजातोऽनंगश्च कर्मराश्युद्भवस्तथा । उपान्ते कीर्तिदश्चैव सप्तमे कलहप्रदः ॥१५॥
Verse
अष्टमे व्याधिकर्ता च धने बहुसुखप्रदः । जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः ॥१६॥
Verse
पापदृष्टिः खेचरश्च शाम्भवोऽशेषपूजितः । शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः ॥१७॥
Verse
धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः । सिंहासनः केतुमूर्ती रवीन्दुद्युतिनाशकः ॥१८॥
Verse
अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः । भक्तरक्षोऽथ वैचित्र्यकपटस्यन्दनस्तथा ॥१९॥
Verse
विचित्रफलदायी च भक्ताभीष्टफलप्रदः । एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥२०॥
Verse
यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतम् । स तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात् ॥२१॥
Verse
॥ इति केतु अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
