aSTottaranAma
śrīkṛṣṇāṣṭottaraśatanāmastotram
श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीरामजयम् ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
Verse
ॐ गीताचार्याय विद्महे ।
Verse
भक्तमित्राय धीमहि । तन्नः कृष्णः प्रचोदयात् ॥
Verse
अथ श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ।
Verse
परानन्दप्रकाशाय नरानन्दावतारिणे । वरानन्दविकाशाय चिरानन्दाय ते नमः ॥१॥
Verse
कारागृहसुजन्याय जन्मान्तरहिताय च । जन्मादिभयहाराय जनार्दनाय ते नमः ॥२॥
Verse
देवकीवसुदेवस्वपुत्ररूपपरात्मने । यशोदानन्दगोपस्वपुत्राभिपालिताय च ॥३॥
Verse
नीलनिर्मलगात्राय स्मितमोहनरूपिणे । बाललीलाभिनन्दाय बालकृष्णाय ते नमः ॥४॥
Verse
करुणालयनेत्राय कंजातपूतदृष्टये । कारुण्यसत्कटाक्षाय केशवाय नमो नमः ॥५॥
Verse
नवनीतचुराश्चर्यलीलाविनोदनन्दिने । सुज्ञाननवनीताय ज्ञानरूप्याय ते नमः ॥६॥
Verse
मृत्तिकाशनबालास्यप्रपञ्चदर्शनाय च । लीलाचतुरकृष्णाय सर्वस्वाय नमो नमः ॥७॥
Verse
सुरारिवधलीलाय सुरगानार्चिताय च । साधुसागरचन्द्राय हृषीकेशाय ते नमः ॥८॥
Verse
गोवर्धनगिरीशाय कालिङ्गनर्तनाय च । गोपवृन्दसुरक्षाय गोविन्दाय नमो नमः ॥९॥
Verse
गोकुलानन्दवर्धाय गोपिकारमणाय च । गोपिकाह्लादगानाय गोपालाय नमो नमः ॥१०॥
Verse
वेणुगानाभिलीनाय प्राणमिश्रितगीतये । श्रोतृविस्मृतसर्वाय प्राणनाथाय ते नमः ॥११॥
Verse
जङ्गमस्थावरावेशदिव्यमाधुर्यवेणवे । मनोगालनगीताय गीतरागाय(१) ते नमः ॥१२॥
Verse
सङ्गीतसुस्वरानन्दरागस्वरूपमूर्तये । रागतालगतिस्थाय स्थाणवे ते नमो नमः ॥१३॥
Verse
गोपिकाराससुक्रीडासूचतत्त्वप्रपत्तये(२) । गोपिकाभक्तिवश्याय दामोदराय ते नमः ॥१४॥
Verse
रुक्मिणीसत्यभामासभक्तिज्ञानाश्रयाय च । माधुर्यभक्तिपूज्याय अच्युताय नमो नमः ॥१५॥
Verse
निजभक्त्यभिगम्याय भक्तहृत्स्थलवासिने । तुलसीदलतृप्ताय भक्तप्रियाय ते नमः ॥१६॥
Verse
अतिसौलभ्यदैवाय लघुपूजनतोषिणे । तुलसीदलमालाय नारायणाय ते नमः ॥१७॥
Verse
सुदामभक्तिनैवेद्यसुप्रीतिमित्रपोषिणे । पाण्डवापत्त्यपोहाय रक्षादैवाय ते नमः ॥१८॥
Verse
पञ्चेन्द्रियवशार्तिस्थसन्मनस्तापहारिणे । पञ्चपाण्डवभार्यार्तितापापहाय(३) ते नमः ॥१९॥
Verse
द्रौपदीभक्तिवश्याय सतीमानसुरक्षिणे । सदारक्षितकृष्णाय(४) क्षिप्रप्रसादिने नमः ॥२०॥
Verse
दुश्शक्तिपीडितायुद्धसच्छक्तिजयकारिणे । भक्तपाण्डवतापार्तिकरकौरवनाशिने ॥२१॥
Verse
निष्कामकर्मबोधाय कर्ममर्मप्रदर्शिने । स्वजीवकर्मयोगाय योगेश्वराय ते नमः ॥२२॥
Verse
गीताबोधप्रमाणाय शरणार्थिनयाय च । प्रपन्नविजयानेत्रे भक्तसारथये नमः ॥२३॥
Verse
भक्तियोगोपदेशाय सद्भक्तजीवमार्गिणे । निजभक्त्यपरोक्षाय सद्भक्तपालिने नमः ॥२४॥
Verse
निष्कामभक्तितत्त्वस्वगीतोपदेशदर्शिने । शरणागतरक्षाय शरण्याय नमो नमः ॥२५॥
Verse
भक्तितत्त्वार्थगीताय सद्भक्तिज्ञानदीपिने । निष्कामभक्तिबोधाय गीतासाराय ते नमः ॥२६॥
Verse
अनन्यशरणागन्तुरक्षणामोक्षदायिने । ज्ञानबोधस्वगीताय ज्ञानाचार्याय ते नमः ॥२७॥
Verse
ज्ञानयोगप्रबोधाय सुज्ञानमार्गगामिने । सज्ज्ञानतत्त्वदर्शाय तत्त्वबोधाय ते नमः ॥२८॥
Verse
हिम्यालयप्रशान्ताय नरनारायणाय च । सर्वानन्दप्रकाशाय श्रीकृष्णाय नमो नमः ॥२९॥
Verse
गङ्गाप्रभवपादाय(५) बदरीधामपूतये । गङ्गास्वरूपकृष्णाय अनन्ताय नमो नमः ॥३०॥
Verse
श्रीभागवतगेहाय पुण्यचारित्ररूपिणे । भागवतेष्टदैवाय भगधेयाय ते नमः ॥३१॥
Verse
बालालापं सुभक्त्युत्थं एतत्स्तोत्रं त्वदर्पणम् । नमस्तुभ्यं हरे कृष्ण पाहि मां शरणागताम् ॥३२॥
Verse
कृष्णालयमिदंस्तोत्रं श्रीकृष्णशुभदैवतम् । कृष्णरागस्फुरद्दीपं कृष्णमानसपूजनम् ॥३३॥
Verse
अनुरागाभिषेकं च रागपुष्पार्चनं शिवम् । न्यूनच्छिद्राणिधूपं च दीपाराधनदर्शनम् ॥३४॥
Verse
शरणागतिनैवेद्यं कृष्णार्पणं सुगीतकम् । कृताञ्जलिनमस्कारं कृष्णप्रसादमङ्गलम् ॥३५॥
Verse
मङ्गलं योगकृष्णाय मूलाधाराय मङ्गलम् । मङ्गलं गीतकृष्णाय नादरामाय मङ्गलम् ॥३६॥
Verse
कृष्ण त्वमसिमच्छ्रायः कुरु दृष्टिप्रसादनम् । मङ्गलायनकृष्ण त्वं कुरु सम्पूर्णमङ्गलम् ॥३७॥
Verse
पूर्णत्वनयगीताय पूर्णानन्दप्रकाशिने । पूर्णाभिव्याप्तसर्वाय पूर्णाय शुभमङ्गलम् ॥३८॥
Verse
त्यागब्रह्मगुरुस्वामिशिष्यापुष्पासुगीतकम् । कृष्णस्तोत्रं महापुण्यं ब्रह्मानन्दं सुमङ्गलम् ॥३९॥
