aSTottaranAma
śrīkṛṣṇāṣṭottaraśatanāmastotram
श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीगणेशाय नमः ।
Verse
ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः, अनुष्टुप्-छन्दः, श्रीकृष्णो देवता, श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः ।
Verse
श्रीशेष उवाच ।
Verse
ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः । वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥१॥
Verse
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥२॥
Verse
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः । यमुनावेगसंहारी बलभद्रप्रियानुजः ॥३॥
Verse
पूतनाजीवितहरः शकटासुरभञ्जनः । नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥४॥
Verse
नवनीतनवाहारी मुचुकुन्दप्रसादकः । षोडशस्त्रीसहस्रेशस्त्रिभङ्गो मधुराकृतिः ॥५॥
Verse
शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः । वत्सपालनसञ्चारी धेनुकासुरभञ्जनः ॥६॥
Verse
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः । उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥७॥
Verse
गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः । इलापतिः परंज्योतिर्यादवेन्द्रो यदूद्वहः ॥८॥
Verse
वनमाली पीतवासाः पारिजातापहारकः । गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥९॥
Verse
अजो निरञ्जनः कामजनकः कञ्जलोचनः । मधुहा मथुरानाथो द्वारकानायको बली ॥१०॥
Verse
वृन्दावनान्तसञ्चारी तुलसीदामभूषणः । स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ॥११॥
Verse
कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः । मुष्टिकासुरचाणूरमहायुद्धविशारदः ॥१२॥
Verse
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः । अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥१३॥
Verse
शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकृत् । विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥१४॥
Verse
सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥१५॥
Verse
जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः । वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् ॥१६॥
Verse
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः । पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥१७॥
Verse
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः । दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ॥१८॥
Verse
नारायणः परम्ब्रह्म पन्नगाशनवाहनः । जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥१९॥
Verse
पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः । सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ॥२०॥
Verse
इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् । कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥२१॥
Verse
स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा । कृष्णनामामृतं नाम परमानन्ददायकम् ॥२२॥
Verse
अनुपद्रवदुःखघ्नं परमायुष्यवर्धनम् दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥२३॥
Verse
पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् । पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥२४॥
Verse
धनावहं दरिद्राणां जयेच्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदं पुष्टिवर्धनम् ॥२५॥
Verse
वातग्रहज्वरादीनां शमनं शान्तिमुक्तिदम् । समस्तकामदं सद्यः कोटिजन्माघनाशनम् ॥२६॥
Verse
अन्ते कृष्णस्मरणदं भवतापभयापहम् ।
Verse
कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने । नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥२७॥
Verse
इमं मन्त्रं महादेवि जपन्नेव दिवानिशम् । सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥२८॥
Verse
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् । निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्युनात् ॥२९॥
Verse
॥ इति श्रीनारदपञ्चरात्रे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥
