aSTottaranAma
śrīkirātaśāstuḥ aṣṭottaraśatanāmastotram
श्रीकिरातशास्तुः अष्टोत्तरशतनामस्तोत्रम्
Verse
किरातात्मा शिवः शान्त शिवात्मा शिवनन्दनः ।
Verse
पुराणपुरुषोधन्वी पुरुहुत सहायकृत् ॥१ नीलाम्बरो महाबाहुर्वीर्यवान् विजयप्रदः ।
Verse
विधुमौलिर्विराडात्मा विश्वात्मा वीर्यमोहनः ॥२ वरदो वामदेवश्च वासुदेवप्रियो विभुः ।
Verse
केयूरवान् पिञ्छमौलिः पिङ्गलाक्षः कृपाणवान् ॥३ शास्वतः शरकोदण्डी शरणागतवत्सलः ।
Verse
श्यामलाङ्गः शरधीमान् शरदिन्दु निभाननः ॥४ पीनकण्ठो विरूपाक्षः क्षुद्रहा क्षुरिकायुधः ।
Verse
धाराधर वपुर्धीमान् सत्यसन्धः प्रतापवान् ॥५ कैरातपतिराखेटप्रियः प्रीतिप्रदः प्रभुः ।
Verse
रेणुकात्मज श्रीराम चित्तपत्मालयो बली ॥६ व्याधरूपधरो व्याधिनाशनः कालशासनः ।
Verse
कामदेवसमो देवः कामितार्थ फलप्रदः ॥७ अभृतः स्वभृतो धीरः सारः सात्विकसत्तमः ।
Verse
सामवेदप्रियो वेधाः वेदो वेदविदांवरः ॥८ त्र्यक्षरात्मा त्रिलोकेशः त्रिस्वरात्मा त्रिलोचनः ।
Verse
त्रिगुणात्मा त्रिकालज्ञः त्रिमूर्त्यात्मा त्रिवर्गदः ॥९ पार्वतीनन्दनः श्रीमान् पावनः पापनाशनः ।
Verse
पारावारगभीरात्मा परमात्मा परात्परः ॥१० गीतप्रियो गीतकीर्तिः कार्तिकेयसहोदरः ।
Verse
कारुण्यसागरो हंसः सिद्ध सिम्हपराक्रमः ॥११ सुश्लोकः सुमुखो वीरः सुन्दरः सुरवन्दितः ।
Verse
सुरवैरिकुलध्वंसी स्थूलश्मश्रुरमित्रहा ॥१२ अमृतः सर्वगः सूक्ष्म स्थूलस्तुरगवाहनः । अमलो विमलो दक्षो वसुमान् वनगो गुरुः ॥१३ सर्वप्रियः सर्वसाक्षी सर्वयोगीश्वरेश्वरः तारक ब्रह्मरूपी च चन्द्रिकाविशदस्मितः किरात वपुरारामसञ्चारी परमेश्वरः ॥१४ इति श्री किरातशास्तुः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
