aSTottaranAma
kṛkārādi śrīkṛṣṇāṣṭottaraśatanāmastotram
कृकारादि श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
Verse
कृष्णः कृती कृपाशीतः कृतज्ञः कृष्णमूर्धजः । कृष्णाव्यसनसंहर्ता कृष्णाम्बुधरविग्रहः ॥१॥
Verse
कृष्णाब्जवदनः कृष्णाप्रकृत्यङ्गः कृताखिलः । कृतगीतः कृष्णगीतः कृष्णगोपीजनाम्बरः ॥२॥
Verse
कृष्णस्वरः कृत्तजिष्णुगर्वः कृष्णोत्तरस्रजः । कृतलोकेशसम्मोहः कृतदावाग्निपारणः ॥३॥
Verse
कृष्टोलूखलनिर्भिन्न यमलार्जुनभूरुहः । कृतगोवर्धनच्छत्रो कृताहिफणताण्डवः ॥४॥
Verse
कृत्ताघः कृत्तभक्ताघः कृतदैवतमङ्गलः । कृतान्तसदनाधीतगुरुपुत्रः कृतस्मितः ॥५॥
Verse
कृतान्तभगिनीवारिविहारी कृतवित्प्रियः । कृतगोवत्ससन्त्राणः कृतकेतरसौहृदः ॥६॥
Verse
कृत्तभूमिभरः कृष्णबन्धुः कृष्णमहागुरुः । कृष्णप्रियः कृष्णसखः कृष्णेशः कृष्णसारधिः ॥७॥
Verse
कृतराजोत्सवः कृष्णगोपीजनमनोधनः । कृष्णगोपीकटाक्षालि पूजितेन्दीवराकृतिः ॥८॥
Verse
कृष्णप्रतापः कृष्णाप्तः कृष्णमानाभिरक्षणः । कृपीटधिकृतावासः कृपीटरुहलोचनः ॥९॥
Verse
कृशानुवदनाधीशः कृशानुहुतखाण्डवः । कृत्तिवासस्स्म्ययाहर्ता कृत्तिवासोज्ज्वरार्दनः ॥१०॥
Verse
कृत्तबाणभुजावृन्दः कृतवृन्दारकावनः । कृतादियुगसंस्थाकृत्कृतसद्धर्मपालनः ॥११॥
Verse
कृतचित्तजनप्राणः कृतकन्दर्पविग्रहः । कृशोदरीवृन्दबन्दीमोचकः कृपणावनः ॥१२॥
Verse
कृत्स्नवित्कृत्स्नदुर्ञ्जेयमहिमा कृत्स्नपालकः । कृत्स्नान्तरः कृत्स्नयन्ता कृत्स्नहा कृत्स्नधारयः ॥१३॥
Verse
कृत्स्नाकृतिः कृत्स्नदृष्टिः कृच्छलभ्यः कृताद्भुतः । कृत्स्नप्रियः कृत्स्नहीनः कृत्स्नात्मा कृत्स्नभासकः ॥१४॥
Verse
कृत्तिकानन्तरोद्भूतः कृत्तरुक्मिकचव्रजः । कृपात्तरुक्मिणीकान्तः कृतधर्मक्रियावनः ॥१५॥
Verse
कृष्णपक्षाष्टमीचन्द्र फालभागमनोहरः । कृत्यसाक्षी कृत्यपतिः कृत्स्नक्रतु फलप्रदः ॥१६॥
Verse
कृष्णवर्मलसच्चक्रः कृपीटजविभूषणः । कृताख्यारूपनिर्वाहः कृतार्थीकृतबाडबः ॥१७॥
Verse
कृतवन्यस्रजाभूषः कृपीटजलसत्करः । कृपीटजालयावक्षाः कृतपादार्चनाम्बुजः ॥१८॥
Verse
कृतिमेतरसौन्दर्यः कृतिमाशयदुर्लभः । कृततार्क्ष्यध्वजरधः कृतमोक्षाभिधेयकः ॥१९॥
Verse
कृतीकृतद्वापरकः कृतसौभाग्यभूतलः । कृतलोकत्रयानन्दः कृतीकृतकलिप्रधः ॥२०॥
Verse
कृतोत्तरागर्भरक्षः कृतधी कृतलक्षणः । कृतत्रिजगतीमोहः कृतदेवद्रुमाहृतिः ॥२१॥
Verse
कृत्स्नानन्दः कृत्स्नदुःखदूरः कृत्स्नविलक्षणः । कृत्स्नांशः कृत्स्नजीवांशः कृत्स्नसत्तः कृतिप्रियः ॥२२॥
Verse
॥ इति श्री कृकारादि कृष्णाष्टोत्तरशतम् विश्वावसु श्रावणा बहुल चतुर्थी स्थिरवासरे रामेण लिखितं समर्पितं च श्री हयग्रीवाय ॥
