Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

kakārādi kakārādi śrīkūrmāṣṭottaraśatanāmastotram

ककारादि ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम्

Verse

कमठः कन्धिमध्यस्थः करुणावरुणालयः । कुलाचलसमुद्धर्ता कुण्डलीन्द्रसमाश्रयः ॥१॥

Verse

कठोरपृष्टः कुधरः कलुषीकृतसागरः । कल्याणमूर्तिः क्रतुभुक्प्रार्थनाधृत विग्रहः ॥२॥

Verse

कुलाचलसमुद्भ्रान्तिघृष्टकण्डूतिसौख्यवान् । करालश्वाससङ्क्षुब्धसिन्धूर्मिप्रहताम्बरः ॥३॥

Verse

कन्धिकर्दमकस्तूरीलिप्तवक्षःस्थलः कृती । कुलीरादिपयस्सत्त्वनिष्पेषणचतुष्पदः ॥४॥

Verse

कराग्रादत्तसम्भुक्ततिमिङ्गिलगिलोत्करः । कन्धिपुष्पद्विरेफाभः कपर्द्यादिसमीडितः ॥५॥

Verse

कल्याणाचलतुङ्गात्मागाधीकृतपयोनिधिः । कुलिशत्पृष्ठसङ्घर्षक्षीणमूलकुलाचलः ॥६॥

Verse

काश्यपीसत्कुचप्रायमन्दराहतपृष्ठकः । कायैकदेशापर्याप्तशेषदिग्गजमण्डलः ॥७॥

Verse

कठोरचरणाघातद्वैधीकृतपयोनिधिः । कालकूटकृतत्रासः काण्डदुर्मितवैभवः ॥८॥

Verse

कमनीयः कविस्तुत्यः कनिधिः कमलापतिः । कमलासनकल्याणसन्धाता कलिनाशनः ॥९॥

Verse

कटाक्षक्षतदेवार्तिः केन्द्रादिविधृतांजलिः । कालीपतिप्रीतिपात्रं कामितार्थप्रदः कविः ॥१०॥

Verse

कूटस्थः कूटकमठः कूटयोगिसुदुर्लभः । कामहीनः कामहेतुः कामभृत्कंजलोचनः ॥११॥

Verse

क्रतुभुग्दैन्यविध्वंसी क्रतुभुक्पालकः क्रतुः । क्रतुपूज्यः क्रतुनिधिः क्रतुत्राता क्रतूद्भवः ॥१२॥

Verse

कैवल्यसौख्यदकथः कैशोरोत्क्षिप्तमन्दरः । कैवल्यनिर्वाणमयः कैटभप्रतिसूदनः ॥१३॥

Verse

क्रान्तसर्वाम्बुधिः क्रान्तपातालः कोमलोदरः । कन्धिसोर्मिजलक्षौमः कुलाचलकचोत्करः ॥१४॥

Verse

कटुनिश्श्वासनिर्धूतरक्षस्तूलः कृताद्भुतः । कौमोदकीहतामित्रः कौतुकाकविताहवः ॥१५॥

Verse

करालिकंटकोद्धर्ता कविताब्धिमणीसुमः । कैवल्यवल्लरीकन्दः कन्दुकीकृतचन्दिरः ॥१६॥

Verse

करपीतसमस्ताब्धिः कायान्तर्गतवाश्चरः । कर्पराब्जद्विरेफाभमन्दरः कन्दलत्स्मितः ॥१७॥

Verse

काश्यपीव्रततीकन्दः कश्यपादिसमानतः । कल्याणजालनिलयः क्रतुभुङ्नेत्रनन्दनः ॥१८॥

Verse

कबन्धचरहर्यक्षः क्रान्तदर्शिमनोहरः । कर्मठाविषयः कर्मकर्तृभावादिवर्जितः ॥१९॥

Verse

कर्मानधीनः कर्मज्ञः कर्मपः कर्मचोदनः । कर्मसाक्षी कर्महेतुः कर्मज्ञानविभागकृत् ॥२०॥

Verse

कर्ता कारयिता कार्यं कारणं करणं कृतिः । कृत्स्नं कृत्स्नातिगः कृत्स्नचेतनः कृत्स्नमोहनः ॥२१॥

Verse

करणागोचरः कालः कार्यकारणतातिगः । कालावशः कालपाशबद्धभक्तावनाभिधः ॥२२॥

Verse

कृतकृत्यः केलिफलः कीर्तनीयः कृतोत्सवः । कृतेतरमहानन्दः कृतज्ञः कृतसत्सुखः ॥२३॥

Verse

॥ इति ककारादि श्री कमठावताराष्टोत्तरशतम् रामेण पराभव वैशाख बहुलद्वादश्यां लिखितम् श्री हयग्रीवायार्पितम् ॥

kakārādi śrīkalkyaṣṭottaraśatanāmastotram
kṛkārādi śrīkṛṣṇāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms