Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

kakārādi śrīkalkyaṣṭottaraśatanāmastotram

ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम्

Verse

श्री हयग्रीवाय नमः ।

Verse

हरिः ॐ कल्की कल्की कल्किहन्ता कल्किजित्कलिमारकः । कल्क्यलभ्यः कल्मषघ्नः कल्पितक्षोणिमङ्गलः ॥१॥

Verse

कलिताश्वाकृतिः कन्तुसुन्दरः कञ्जलोचनः । कल्याणमूर्तिः कमलाचित्तचोरः कलानिधिः ॥२॥

Verse

कमनीयः कलिनिशाकल्यनामा कनत्तनुः । कलानिधिसहस्राभा कपर्दिगिरिसन्निभः ॥३॥

Verse

कन्दर्पदर्पदमनः कण्ठीरवपराक्रमः । कन्धरोच्चलितश्वेतपटानिर्धूतकन्धरः ॥४॥

Verse

कठोरहेषानिनदत्रासिताशेषमानुषः । कविः कवीन्द्रसंस्तुत्यः कमलासनसन्नुतः ॥५॥

Verse

कनत्खुराग्रकुलिशचूर्णीकृताखिलाचलः । कचित्तदर्पदमनगमनस्तम्भिताहिपः ॥६॥

Verse

कलाकुलकलाजालचलवालामलाचलः । कल्याणकान्तिसन्तान पारदक्षालिताखिलः ॥७॥

Verse

कल्पद्रुकुसुमाकीर्णः कलिकल्पमहीरुहः । कचन्द्राग्नीन्द्ररुद्रादि बुधलोकमयाकृतिः ॥८॥

Verse

कञ्जासनाण्डामितात्मप्रतापः कन्धिबन्धनः । कठोरखुरविन्यासपीडिताशेषभूतलः ॥९॥

Verse

कबलीकृतमार्ताण्डहिमांशुकिरणाङ्कुरः । कदर्थीकृतरुद्रादिवीरवर्यः कठोरदृक् ॥१०॥

Verse

कविलोकामृतासार वर्षायितदृगावलिः । कदात्मायुर्घृतग्राहिकोपाग्निरुचिदृक्ततिः ॥११॥

Verse

कठोरश्वासनिर्धूतखलतूलावृताम्बुधिः । कलानिधिपदोद्भेदलीलाकृतसमुत्प्लवः ॥१२॥

Verse

कठोरखुरनिर्भेदक्रोशदाकाशसंस्तुतः । कञ्जास्याण्डबिभित्योर्थ्वदृष्टिश्रुतियुगाद्भुतः ॥१३॥

Verse

कनत्पक्षद्वयव्याज शङ्खचक्रोपशोभितः । कदर्थीकृतकौबेरशङ्खश्रुतियुगाञ्चितः ॥१४॥

Verse

कलितांशुगदावालः कण्ठसन्मणिविभ्रमः । कलानिधिलसत्फालः कमलालयविग्रहः ॥१५॥

Verse

कर्पूरखण्डरदनः कमलाबडबान्वितः । करुणासिन्धुफेनान्तलम्बमानाधरोष्टकः ॥१६॥

Verse

कलितानन्तचरणः कर्मब्रह्मसमुद्भवः । कर्मब्रह्माब्जमार्ताण्डः कर्मब्रह्मद्विरर्दनः ॥१७॥

Verse

कर्मब्रह्ममयाकारः कर्मब्रह्मविलक्षणः । कर्मब्रह्मात्यविषयः कर्मब्रह्मस्वरूपवित् ॥१८॥

Verse

कर्मास्पृष्टः कर्महीनः कल्याणानन्दचिन्मयः । कञ्जासनाण्डजठरः कल्पिताखिलविभ्रमः ॥१९॥

Verse

कर्मालसजनाज्ञेयः कर्मब्रह्ममतासहः । कर्माकर्मविकर्मस्थः कर्मसाक्षी कभासकः ॥२०॥

Verse

कचन्द्राग्न्युडुतारादिभासहीनः कमध्यगः । कचन्द्रादित्यलसनः कलावार्ताविवर्जितः ॥२१॥

Verse

करुद्रमाधवमयः कलाभूतप्रमातृकः । कलितानन्तभुवन सृष्टिस्थितिलयक्रियः ॥२२॥

Verse

करुद्रादि तरङ्गाध्यस्वात्मानन्दपयोदधिः । कलिचित्तानन्दसिन्धुसम्पूर्णानङ्कचन्द्रमाः ॥२३॥

Verse

कलिचेतस्सरोहंसः कलिताखिलचोदनः । कलानिधिवरज्योत्स्नामृतक्षालितविग्रहः ॥२४॥

Verse

कपर्दिमकुटोदञ्चद्गङ्गापुष्करसेवितः । कञ्जासनात्ममोदाब्धितरङ्गार्द्रानिलार्चितः ॥२५॥

Verse

कलानिधिकलाश्वेतशारदाम्बुदविग्रहः । कमलावाङ्मरन्दाब्धिफेनचन्दनचर्चितः ॥२६॥

Verse

कलितात्मानन्दभुक्तिः करुङ्नीराजिताकृतिः । कश्यपादिस्तुतख्यातिः कविचेतस्सुमार्पणः ॥२७॥

Verse

कलिताकारसद्धर्मः कलाफलमयाकृतिः । कठोरखुरघातात्तप्राणाधर्मवशुः कलिजित् ॥२८॥

Verse

कलापूर्णीकृतवृषः कल्पितादियुगस्थितिः । कम्रः कल्मषपैशाचमुक्ततुष्टधरानुतः ॥२९॥

Verse

कर्पूरधवलात्मीय कीर्तिव्याप्तदिगन्तरः । कल्याणात्मयशोवल्लीपुष्पायितकलानिधिः ॥३०॥

Verse

कल्याणात्मयशस्सिन्धु जाताप्सरसनर्तितः । कमलाकीर्तिगङ्गाम्भः परिपूर्णयशोम्बुधिः ॥३१॥

Verse

कमलासनधीमन्थमथितानन्दसिन्धुभू । कल्याणसिन्धुः कल्याणदायी कल्याणमङ्गलः ॥३२॥

Verse

॥ इति ककारादि कल्क्यष्टोत्तरशतनाममूलं लिखितं रामेण पराभवाश्वयुज बहुल चतुर्थ्याम् समर्पितं च श्रीमते हयग्रीवाय देवाय ॥

dakārādidattātreyāṣṭottaraśatanāmastotram
kakārādi kakārādi śrīkūrmāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms