Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

dakārādidattātreyāṣṭottaraśatanāmastotram

दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्

Verse

दत्तं वन्दे दशातीतं दयाब्धि दहनं दमम् । दक्षं दरघ्नं दस्युघ्नं दर्शं दर्पहरं दवम् ॥१॥

Verse

दातारं दारुणं दान्तं दास्यादं दानतोषणम् । दानं दावप्रियं दावं दासत्रं दारवर्जितम् ॥२॥

Verse

दिक्पं दिवसपं दिक्स्थं दिव्ययोगं दिगम्बरम् । दिव्यं दिष्टं दिनं दिश्यं दिव्याङ्गं दितिजार्चितम् ॥३॥

Verse

दीनपं दीधितिं दीप्तं दीर्घं दीपं च दीप्तगुम् । दीनसेव्यं दीनबन्धुं दीक्षादं दीक्षितोत्तमम् ॥४॥

Verse

दुर्ज्ञेयं दुर्ग्रहं दुर्गं दुर्गेशं दुःखभञ्जनम् । दुष्टघ्नं दुग्धपं दुःखं दुर्वासोऽग्र्यं दुरासदम् ॥५॥

Verse

दूतं दूतप्रियं दूष्यं दूष्यत्रं दूरदर्शिपम् । दूरं दूरतमं दूर्वाभं दूराङ्गं च दूरगम् ॥६॥

Verse

देवार्चयं देवपं देवं देयज्ञं देवतोत्तमम् । देहज्ञं देहिनं देशं देशिकं देहिजीवनम् ॥७॥

Verse

दैन्यं दैन्यहरं दैवं दैन्यदं दैविकान्तकम् । दैत्यघ्नं दैवतं दैघ्र्यं दैवज्ञं दैहिकार्तिदम् ॥८॥

Verse

दोषघ्नं दोषदं दोषं दोषित्रं दोद्र्वयान्वितम् । दोषज्ञं दोहपं दोषेड्बन्धुं दोर्ज्ञं च दोहदम् ॥९॥

Verse

दौरात्म्यघ्नं दौर्मनस्य-हरं दौर्भाग्यमोचनम् । दौष्ट्य्त्रं दौष्कुल्यदोष-हरं दौर्हृद्यभञ्जनम् ॥१०॥

Verse

दण्डज्ञं दण्डिनं दण्डं दम्भघ्नं दम्भिशासनम् । दन्त्यास्यं दन्तुरं दंशिघ्नं दण्ड्य्ज्ञं च दण्डदम् ॥११॥

Verse

अनन्तानन्तनामानि सन्ति तेऽनन्तविक्रम । वेदोऽपि चकितो यत्र नुर्वाघृद्दूर का कथा ॥१२॥

Verse

इति श्रीवासुदेवानन्दसरस्वतीविरचितं दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

śrīdattātreyāṣṭottaraśatanāmastotram
kakārādi śrīkalkyaṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms