Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīdattātreyāṣṭottaraśatanāmastotram

श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्

Verse

अस्य श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य, ब्रह्मविष्णुमहेश्वरा ऋषयः ।

Verse

श्रीदत्तात्रेयो देवता ।

Verse

अनुष्टुप्छन्दः ।

Verse

श्रीदत्तात्रेयप्रीत्यर्थे नामपरायणे विनियोगः ।

Verse

ॐ द्रां द्रीं द्रूं द्रैं द्रौं द्रः ।

Verse

इति करहृदयादिन्यासौ ।

Verse

ध्यानम्- दिगम्बरं भस्मविलोपिताङ्गं चक्रं त्रिशूलं डमरुं गदां च । पद्माननं योगिमुनीन्द्र वन्द्यं ध्यायामि तं दत्तमभीष्टसिद्ध्यै ॥

Verse

लमित्यादि पञ्चपूजाः ।

Verse

ॐ अनसूयासुतो दत्तो ह्यत्रिपुत्रो महामुनिः । योगीन्द्रः पुण्यपुरुषो देवेशो जगदीश्वरः ॥१॥

Verse

परमात्मा परं ब्रह्म सदानन्दो जगद्गुरुः । नित्यतृप्तो निर्विकारो निर्विकल्पो निरञ्जनः ॥२॥

Verse

गुणात्मको गुणातीतो ब्रह्मविष्णुशिवात्मकः । नानारूपधरो नित्यः शान्तो दान्तः कृपानिधिः ॥३॥

Verse

भक्तप्रियो भवहरो भगवान्भवनाशनः । आदिदेवो महादेवः सर्वेशो भुवनेश्वरः ॥४॥

Verse

वेदान्तवेद्यो वरदो विश्वरूपोऽव्ययो हरिः । सच्चिदानन्दः सर्वेशो योगीशो भक्तवत्सलः ॥५॥

Verse

दिगम्बरो दिव्यमूतिर्दिव्यभूतिविभूषणः । अनादिसिद्धः सुलभो भक्तवाच्छितदायकः ॥६॥

Verse

एकोऽनेको ह्यद्वितीयो निगमागमपण्डितः । भुक्तिमुक्तिप्रदाता च कार्तवीर्यवरप्रदः ॥७॥

Verse

शाश्वताङ्गो विशुद्धात्मा विश्वात्मा विश्वतो मुखः । सर्वेश्वरः सदातुष्टः सर्वमङ्गलदायकः ॥८॥

Verse

निष्कलङ्को निराभासो निर्विकल्पो निराश्रयः । पुरुषोत्तमो लोकनाथः पुराणपुरुषोऽनघः ॥९॥

Verse

अपारमहिमाऽनन्तो ह्याद्यन्तरहिताकृतिः । संसारवनदावाग्निर्भवसागरतारकः ॥१०॥

Verse

श्रीनिवासो विशालाक्षः क्षीराब्धिशयनोऽच्युतः । सर्वपापक्षयकरस्तापत्रयनिवारणः ॥११॥

Verse

लोकेशः सर्वभूतेशो व्यापकः करुणामयः । ब्रह्मादिवन्दितपदो मुनिवन्द्यः स्तुतिप्रियः ॥१२॥

Verse

नामरूपक्रियातीतो निःस्पृहो निर्मलात्मकः । मायाधीशो महात्मा च महादेवो महेश्वरः ॥१३॥

Verse

व्याघ्नचर्माम्बरधरो नागकुण्डभूषणः । सर्वलक्षणसम्पूर्णः सर्वसिद्धिप्रदायकः ॥१४॥

Verse

सर्वज्ञः करुणासिन्धुः सर्पहारः सदाशिवः । सह्याद्रिवासः सर्वात्मा भवबन्धविमोचनः ॥१५॥

Verse

विश्वम्भरो विश्वनाथो जगन्नाथो जगत्प्रभुः । नित्यं पठति यो भक्त्या सर्वपापैः प्रमुच्यते ॥१६॥

Verse

सर्वदुःखप्रशमनं सर्वारिष्टनिवारणम् । भोगमोक्षप्रदं नृणां दत्तसायुज्यदायकम् ॥१७॥

Verse

पठन्ति ये प्रयत्नेन सत्यं सत्यं वदाम्यहम् ।

Verse

इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् ।

Verse

इति श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रं (२) सम्पूर्णम् ।

mantragarbha dattātreyāṣṭottaraśatanāmastotram
dakārādidattātreyāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms