aSTottaranAma
mantragarbha dattātreyāṣṭottaraśatanāmastotram
मन्त्रगर्भ दत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्
Verse
मन्त्रगर्भ दत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् ओंकारतत्त्वरूपाय दिव्यज्ञानात्मने नमः । नभोतीतमहाधाम्न ऐंद्र्यृध्या ओजसे नमः ॥१॥
Verse
नष्टमत्सरगम्यायागम्याचारात्मवर्त्मने । मोचितामेध्यकृतये ऱ्हींबीजश्राणितश्रिये ॥२॥
Verse
मोहादिविभ्रमान्ताय बहुकायधराय च । भत्तदुर्वैभवछेत्रे क्लींबीजवरजापिने ॥३॥
Verse
भवहे- तुविनाशाय राजच्छोणाधराय च । गतिप्रकम्पिताण्डाय चारुव्यहतबाहवे ॥४॥
Verse
गतग- र्वप्रियायास्तु यमादियतचेतसे । वशिताजातवश्याय मुण्डिने अनसूयवे ॥५॥
Verse
वदद्व- रेण्यवाग्जाला-विस्पृष्टविविधात्मने । तपोधनप्रसन्नाये-डापतिस्तुतकीर्तये ॥६॥
Verse
तेजोमण्यन्तरङ्गाया-द्मरसद्मविहापने । आन्तरस्थानसंस्थायायैश्वर्यश्रौतगीतये ॥७॥
Verse
वातादिभययुग्भाव-हेतवे हेतुबेतवे । जगदात्मात्मभूताय विद्विषत्षट्कघातिने ॥८॥
Verse
सुरव-र्गोद्धृते भृत्या असुरावासभेदिने । नेत्रे च नयनाक्ष्णे चिच्चेतनाय महात्मने ॥९॥
Verse
देवाधिदेवदेवाय वसुधासुरपालिने । याजिनामग्रगण्याय द्रांबीजजपतुष्टये ॥१०॥
Verse
वासनावनदावाय धूलियुग्देहमालिने । यतिसंन्यासिगतये दत्तात्रेयेति संविदे ॥११॥
Verse
यजनास्यभुजेजाय तारकावासगामिने । महाजवास्पृग्रूपाया-त्ताकाराय विरूपिणे ॥१२॥
Verse
नराय धीप्रदीपाय यशस्वियशसे नमः । हारिणे चोज्वलाङ्गायात्रेस्तनूजाय सम्भवे ॥१३॥
Verse
मोचितामरसङ्घाय धीमतां धीरकाय च । बलिष्ठविप्रलभ्याय यागहोमप्रियाय च ॥१४॥
Verse
भजन्महिमविख़्यात्रेऽमरारिमहिमच्छिदे । लाभाय मुण्डिपूज्याय यमिने हेममालिने ॥१५॥
Verse
गतोपाधिव्याधये च हिरण्याहितकान्तये । यतीन्द्रचर्यां दधते नरभावौषधाय च ॥१६॥
Verse
वरिष्ठयोगिपूज्याय तन्तुसन्तन्वते नमः । स्वात्मगाथासुतीर्थाय मःश्रिये षट्कराय च ॥१७॥
Verse
तेजोमयोत्तमाङ्गाय नोदनानोद्यकर्मणे । हान्याप्तिमृतिविज्ञात्र ओंकारितसुभक्तये ॥१८॥
Verse
रुक्षुङ्मनःखेदहृते दर्शनाविषयात्मने । रांकवाततवस्त्राय नरतत्त्वप्रकाशिने ॥१९॥
Verse
द्रावितप्रणताघाया-त्तःस्वजिष्णुःस्वराशये । राजन्त्र्यास्यैकरूपाय मःस्थायमसुबम्धवे ॥२०॥
Verse
यतये चोदनातीत- प्रचारप्रभवे नमः । मानरोषविहीनाय शिष्यसंसिद्धिकारिणे ॥२१॥
Verse
गङ्गे पादविहीनाय चोदनाचोदितात्मने । यवीयसेऽलर्कदुःख-वारिणेऽखण्डितात्मने ॥२२॥
Verse
ह्रींबीजायार्जुनज्येष्ठाय दर्शनादर्शितात्मने । नतिसन्तुष्टचित्ताय यतिने ब्रह्मचारिणे ॥२३॥
Verse
इत्येष सत्स्तवो वृत्तोयात् कं देयात्प्रजापिने । मस्करीशो मनुस्यूतः परब्रह्मपदप्रदः ॥२४॥
Verse
॥ इति श्री. प. प. श्रीवासुदेवानन्द सरस्वती विरचितं मन्त्रगर्भ श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम्॥
