Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrītārāśatanāmastotram

श्रीताराशतनामस्तोत्रम्

Verse

श्रीदेव्युवाच । श्रुणु पार्वति वक्ष्यामि शतनाम शुभानि च ॥१॥

Verse

अस्य श्रीशतनाम स्तोत्रस्य श्रीसदाशिव ऋषिर्गायत्रोच्छन्दः श्रीतारादेवता चतुर्वर्गसिद्धये विनियोगः ॥

Verse

ॐ अद्वैतरूपिणी आद्या असिता अणिमा तथा । अम्बिका चापरा चैव अपर्णा अलिनीति च ॥२॥

Verse

अलम्बुषा अघोरा च अक्रूरा घोररूपिणी । शोभा च सुखदा सत्या सदा सन्तोषकारिणी ॥३॥

Verse

सीमन्तिनी इडा चैव अलङ्ग पिङ्गला तथा । दलिताञ्जनसङ्काशा तारिणी तरुणेक्षणा ॥४॥

Verse

तापसी तपनाराध्या तारा च तरलेक्षण । तूरीया तीर्थरूपा च कारिणी रागरूपिणी ॥५॥

Verse

विष्णुशक्तिः सादाराध्या सर्वशक्तिः सदार्चिता । महेशशक्तिर्माहेशी नानामुणिगणार्चिता ॥६॥

Verse

रागिणी रेणुकारम्या रक्तपद्मदलेक्षणा । रामशक्ती रामपूज्या नित्या श्रीरामचर्चिता ॥७॥

Verse

रत्नरङ्गा रणाध्यक्षा रणधीरा रणाग्रणीः । कृष्णवर्णा कृष्णपूज्या कृष्णशक्तिः करालिनी ॥८॥

Verse

धनुईरा च धानुष्को धन्या धर्मप्रदायिनी । कलुषघ्ना पापहरा पापारिः पापनाशिनी ॥८॥

Verse

पापरूपा च निष्पापा अकलङ्का कलङ्किनो । कलङ्कनाशिनी काली कलिकल्मषनाशिनी ॥१०॥

Verse

गङ्गा च यमुना चैव तथा गोदावरीति च । नर्मन्दा सिन्धुरूपा च कावेरो पुस्करा तथा ॥११॥

Verse

सुन्दरी भैरवी भव्या मातङ्गी वगलामुखी । कैलासवासिनी नित्या कालरात्रिः करालिका ॥१२॥

Verse

काशीप्रयागरूपा च कौमारी कौषिकी तथा । क्रोधरूपा च अक्रोधा खेला हेला हलाहला ॥१३॥

Verse

शतनाम च ते भक्त्या तारायाः परिकीर्त्तितम् । अष्टोत्तरशतं जप्त्वा दशधावा वरानने ॥१४॥

Verse

ततः स्तवं पठित्वा वै सर्वसिद्धीश्वरो भवेत् । त्रिसन्ध्यं यः पठेन्नित्यं कलिकालस्य सम्मतम् ॥१५॥

Verse

अष्टसिद्धीश्वरो भूत्वा विहरेत् क्षितिमण्डले । पूजाकाले निशीथे वा पठित्वामुक्तिमाप्नुयात् ॥१६॥

Verse

इति श्रीकालीविलासतन्त्रे श्रीताराशतनामस्तोत्रं समाप्तम् ।

Verse

ॐ तत्सदित्यादि ।

Verse

इति श्रीकालीविलासतन्त्रे द्वादशपटलः समाप्तः ।

tārāśatanāmastotram bṛhannīlatantrārgatam
mantragarbha dattātreyāṣṭottaraśatanāmastotram

Read next

More on श्रीताराशतनामस्तोत्रम्

  • श्रीताराशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms