aSTottaranAma
tārāśatanāmastotram bṛhannīlatantrārgatam
ताराशतनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम्
Verse
श्रीदेव्युवाच ।
Verse
सर्वं संसूचितं देव नाम्नां शतं महेश्वर । यत्नैः शतैर्महादेव मयि नात्र प्रकाशितम् ॥१॥
Verse
पठित्वा परमेशान हठात् सिद्ध्यति साधकः । नाम्नां शतं महादेव कथयस्व समासतः ॥२॥
Verse
श्रीभैरव उवाच ।
Verse
शृणु देवि प्रवक्ष्यामि भक्तानां हितकारकम् । यज्ज्ञात्वा साधकाः सर्वे जीवन्मुक्तिमुपागताः ॥३॥
Verse
कृतार्थास्ते हि विस्तीर्णा यान्ति देवीपुरे स्वयम् । नाम्नां शतं प्रवक्ष्यामि जपात् स(अ)र्वज्ञदायकम् ॥४॥
Verse
नाम्नां सहस्रं संत्यज्य नाम्नां शतं पठेत् सुधीः । कलौ नास्ति महेशानि कलौ नान्या गतिर्भवेत् ॥५॥
Verse
शृणु साध्वि वरारोहे शतं नाम्नां पुरातनम् । सर्वसिद्धिकरं पुंसां साधकानां सुखप्रदम् ॥६॥
Verse
ॐ तारिणी तारसंयोगा महातारस्वरूपिणी । तारकप्राणहर्त्री च तारानन्दस्वरूपिणी ॥७॥
Verse
महानीला महेशानी महानीलसरस्वती । उग्रतारा सती साध्वी भवानी भवमोचिनी ॥८॥
Verse
महाशङ्खरता भीमा शाङ्करी शङ्करप्रिया । महादानरता चण्डी चण्डासुरविनाशिनी ॥९॥
Verse
चन्द्रवद्रूपवदना चारुचन्द्रमहोज्ज्वला । एकजटा कुरङ्गाक्षी वरदाभयदायिनी ॥१०॥
Verse
महाकाली महादेवी गुह्यकाली वरप्रदा । महाकालरता साध्वी महैश्वर्यप्रदायिनी ॥११॥
Verse
मुक्तिदा स्वर्गदा सौम्या सौम्यरूपा सुरारिहा । शठविज्ञा महानादा कमला बगलामुखी ॥१२॥
Verse
महामुक्तिप्रदा काली कालरात्रिस्वरूपिणी । सरस्वती सरिच्श्रेष्ठा स्वर्गङ्गा स्वर्गवासिनी ॥१३॥
Verse
हिमालयसुता कन्या कन्यारूपविलासिनी । शवोपरिसमासीना मुण्डमालाविभूषिता ॥१४॥
Verse
दिगम्बरा पतिरता विपरीतरतातुरा । रजस्वला रजःप्रीता स्वयम्भूकुसुमप्रिया ॥१५॥
Verse
स्वयम्भूकुसुमप्राणा स्वयम्भूकुसुमोत्सुका । शिवप्राणा शिवरता शिवदात्री शिवासना ॥१६॥
Verse
अट्टहासा घोररूपा नित्यानन्दस्वरूपिणी । मेघवर्णा किशोरी च युवतीस्तनकुङ्कुमा ॥१७॥
Verse
खर्वा खर्वजनप्रीता मणिभूषितमण्डना । किङ्किणीशब्दसंयुक्ता नृत्यन्ती रक्तलोचना ॥१८॥
Verse
कृशाङ्गी कृसरप्रीता शरासनगतोत्सुका । कपालखर्परधरा पञ्चाशन्मुण्डमालिका ॥१९॥
Verse
हव्यकव्यप्रदा तुष्टिः पुष्टिश्चैव वराङ्गना । शान्तिः क्षान्तिर्मनो बुद्धिः सर्वबीजस्वरूपिणी ॥२०॥
Verse
उग्रापतारिणी तीर्णा निस्तीर्णगुणवृन्दका । रमेशी रमणी रम्या रामानन्दस्वरूपिणी ॥२१॥
Verse
रजनीकरसम्पूर्णा रक्तोत्पलविलोचना । इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि ॥२२॥
Verse
प्रपठेद् भक्तिभावेन तारिण्यास्तारणक्षमम् । सर्वासुरमहानादस्तूयमानमनुत्तमम् ॥२३॥
Verse
षण्मासाद् महदैश्वर्यं लभते परमेश्वरि । भूमिकामेन जप्तव्यं वत्सरात्तां लभेत् प्रिये ॥२४॥
Verse
धनार्थी प्राप्नुयादर्थं मोक्षार्थी मोक्षमाप्नुयात् । दारार्थी प्राप्नुयाद् दारान् सर्वागम(पुरो?प्रचो)दितान् ॥२५॥
Verse
अष्टम्यां च शतावृत्त्या प्रपठेद् यदि मानवः । सत्यं सिद्ध्यति देवेशि संशयो नास्ति कश्चन ॥२६॥
Verse
इति सत्यं पुनः सत्यं सत्यं सत्यं महेश्वरि । अस्मात् परतरं नास्ति स्तोत्रमध्ये न संशयः ॥२७॥
Verse
नाम्नां शतं पठेद् मन्त्रं संजप्य भक्तिभावतः । प्रत्यहं प्रपठेद् देवि यदीच्छेत् शुभमात्मनः ॥२८॥
Verse
इदानीं कथयिष्यामि विद्योत्पत्तिं वरानने । येन विज्ञानमात्रेण विजयी भुवि जायते ॥२९॥
Verse
योनिबीजत्रिरावृत्त्या मध्यरात्रौ वरानने । अभिमन्त्र्य जलं स्निग्धं अष्टोत्तरशतेन च ॥३०॥
Verse
तज्जलं तु पिबेद् देवि षण्मासं जपते यदि । सर्वविद्यामयो भूत्वा मोदते पृथिवीतले ॥३१॥
Verse
शक्तिरूपां महादेवीं शृणु हे नगनन्दिनि । वैष्णवः शैवमार्गो वा शाक्तो वा गाणपोऽपि वा ॥३२॥
Verse
तथापि शक्तेराधिक्यं शृणु भैरवसुन्दरि । सच्चिदानन्दरूपाच्च सकलात् परमेश्वरात् ॥३३॥
Verse
शक्तिरासीत् ततो नादो नादाद् बिन्दुस्ततः परम् । अथ बिन्द्वात्मनः कालरूपबिन्दुकलात्मनः ॥३४॥
Verse
जायते च जगत्सर्वं सस्थावरचरात्मकम् । श्रोतव्यः स च मन्तव्यो निर्ध्यातव्यः स एव हि ॥३५॥
Verse
साक्षात्कार्यश्च देवेशि आगमैर्विविधैः शिवे । श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यो मननादिभिः ॥३६॥
Verse
उपपत्तिभिरेवायं ध्यातव्यो गुरुदेशतः । तदा स एव सर्वात्मा प्रत्यक्षो भवति क्षणात् ॥३७॥
Verse
तस्मिन् देवेशि प्रत्यक्षे शृणुष्व परमेश्वरि । भावैर्बहुविधैर्देवि भावस्तत्रापि नीयते ॥३८॥
Verse
भक्तेभ्यो नानाघासेभ्यो गवि चैको यथा रसः । सदुग्धाख्यसंयोगे नानात्वं लभते प्रिये ॥३९॥
Verse
तृणेन जायते देवि रसस्तस्मात् परो रसः । तस्मात् दधि ततो हव्यं तस्मादपि रसोदयः ॥४०॥
Verse
स एव कारणं तत्र तत्कार्यं स च लक्ष्यते । दृश्यते च महादे(व?वि)न कार्यं न च कारणम् ॥४१॥
Verse
तथैवायं स एवात्मा नानाविग्रहयोनिषु । जायते च ततो जातः कालभेदो हि भाव्यते ॥४२॥
Verse
स जातः स मृतो बद्धः स मुक्तः स सुखी पुमान् । स वृद्धः स च विद्वांश्च न स्त्री पुमान् नपुंसकः ॥४३॥
Verse
नानाध्याससमायोगादात्मना जायते शिवे । एक एव स एवात्मा सर्वरूपः सनातनः ॥४४॥
Verse
अव्यक्तश्च स च व्यक्तः प्रकृत्या ज्ञायते ध्रुवम् । तस्मात् प्रकृतियोगेन विना न ज्ञायते क्वचित् ॥४५॥
Verse
विना घटत्वयोगेन न प्रत्यक्षो यथा घटः । इतराद् भिद्यमानोऽपि स भेदमुपगच्छति ॥४६॥
Verse
मां विना पुरुषे भेदो न च याति कथञ्चन । न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमैः ॥४७॥
Verse
न स्नानैस्तर्पणैर्वापि नच दानैः कदाचन । प्रकृत्या ज्ञायते ह्यात्मा प्रकृत्या लुप्यते पुमान् ॥४८॥
Verse
प्रकृत्याधिष्ठितं सर्वं प्रकृत्या वञ्चितं जगत् । प्रकृत्या भेदमाप्नोति प्रकृत्याभेदमाप्नुयात् ॥४९॥
Verse
नरस्तु प्रकृतिर्नैव न पुमान् परमेश्वरः । इति ते कथितं तत्त्वं सर्वसारमनोरमम् ॥५०॥
Verse
इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे ताराशतनाम तत्त्वसारनिरूपणं विंशः पटलः ॥२०॥
