aSTottaranAma
śrītārāśatanāmastotram
श्रीताराशतनामस्तोत्रम्
Verse
श्रीशिव उवाच ॥
Verse
ॐ तारिणी तरला तन्वी तारा तरुणवल्लरी । तीव्ररूपा तरी श्यामा तनुक्षीणपयोधरा ॥१॥
Verse
तुरीया तरला(तरुणा) तीव्रगमना नीलवाहिनी । उग्रतारा जया चण्डी श्रीमदेकजटाशिराः ॥२॥
Verse
तरुणी शाम्भवीछिन्नभाला च भद्रतारिणी । उग्रा चोग्रप्रभा नीला कृष्णा नीलसरस्वती ॥३॥
Verse
द्वितीया शोभना नित्या नवीना नित्यनूतना । चण्डिका विजयाराध्या देवी गगनवाहिनी ॥४॥
Verse
अट्टहास्या करालास्या चरास्या दितिपूजिता । सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता ॥५॥
Verse
रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता । बलिप्रिया बलिरता दुर्गा बलवती बला ॥६॥
Verse
बलप्रिया बलरता बलरामप्रपूजिता । अर्धकेशेश्वरी केशा केशवासविभूषिता ॥७॥
Verse
पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी । दक्षिणा चैव दक्षा च दक्षजा दक्षिणे रता ॥८॥
Verse
वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता । माहेश्वरी महादेवप्रिया पञ्चविभूषिता ॥९॥
Verse
इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी । गान्धारी पञ्चमी पञ्चाननादि परिपूजिता ॥१०॥
Verse
तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी । तत्त्वप्रिया तत्त्वरूपा तत्त्वज्ञानात्मिकाऽनघा ॥११॥
Verse
ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी । तालदानरता क्रूरतापिनी तरणिप्रभा ॥१२॥
Verse
त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी । तारुण्यभावसन्तुष्टा शक्तिर्भक्तानुरागिणी ॥१३॥
Verse
शिवासक्ता शिवरतिः शिवभक्तिपरायणा । ताम्रद्युतिस्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥१४॥
Verse
बलभद्रप्रेमरता बलिभुग्बलिकल्पिनी । रामरूपा रामशक्ती रामरूपानुकारिणी ॥१५॥
Verse
इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् । श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥१६॥
Verse
य इदं पठति स्तोत्रं तारास्तुतिरहस्यकम् । सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले ॥१७॥
Verse
तस्यैव मन्त्रसिद्धिः स्यान्ममसिद्धिरनुत्तमा । भवत्येव महामाये सत्यं सत्यं न संशयः ॥१८॥
Verse
मन्दे मङ्गलवारे च यः पठेन्निशि संयतः । तस्यैव मन्त्रसिद्धिस्स्याद्गाणपत्यं लभेत सः ॥१९॥
Verse
श्रद्धयाऽश्रद्धया वापि पठेत्तारारहस्यकम् । सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् ॥२०॥
Verse
सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् ।
Verse
एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते । ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥२१॥
Verse
इति स्वर्णमालातन्त्रे ताराशतनामस्तोत्रं समाप्तम् ॥
Verse
इति मुण्डमालातन्त्रे हरपार्वती-संवादे त्रयोदशपटलान्तर्गतं ताराशतनामस्तोत्रं सम्पूर्णम् ॥
