Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīkṛṣṇokta jhillirāstotram

श्रीकृष्णोक्त झिल्लिरास्तोत्रम्

Verse

(अथ श्रीकालीविलासतन्त्रे अष्टाविंशतिपटलः ।) श्रीकृष्ण उवाच ।

Verse

हे मातः कथ्यतां नित्यां यदितेऽस्ति दयामयि । कदापश्यामि तां राधां कासा राधा कुतस्थितिः ॥३७॥

Verse

तन्मे कथय हे मातर्हृत्कम्पञ्च भवेन्मम । राधा राधेति मे चिन्ता सर्वदैव प्रजायते ॥३८॥

Verse

श्रीकालिकोवाच ।

Verse

गोलोकमन्मथे बीजे वैद्युते विन्द मण्डले । यद्दिन्दौ सुन्दरी नित्या तत्रराधा विराजते ॥३८॥

Verse

बिन्दुना शृणु रे पुत्र मर्दिन्या गमनं यतः । मर्दिन्या अर्ध सम्भूता चाहं ब्रह्मादिपूजिता ॥४०॥

Verse

करालवदना काली सुन्दरी चाङ्ग -सम्भवा । नमस्ते कालिके मातर्धर्मार्थकाममोक्षदे ॥४१॥

Verse

दलिताञ्जनसङ्काशे नमस्ते बीजरूपिणि । कामरूपे नमस्तुभ्यं नमो मन्मथरूपिणि ॥४२॥

Verse

कन्दर्परूपिणि मातर्नमस्तुभ्यं नमो नमः । ऊँकार रूपिणि तुभ्यं नमस्तुभ्यं नमो नमः ॥४३॥

Verse

नमस्ते शङ्कराकारे मीनकेतुस्वरूपिणि । मायारूपि नमस्तुभ्यं कमला राजरूपिणि ॥४४॥

Verse

कूर्चराजे नमस्तुभ्यं नमस्ते श्रीस्वरूपिणि । वह्निजाया खरूपे त्वं नमस्तुभ्यं नमो नमः ॥४५॥

Verse

झिल्लिरा रूपिणि तुभ्यं नमस्तुभ्यं नमो नमः । श्रुत्वा कृष्णमुखात् स्तोत्रं यदाह कालिका परा ॥४६॥

Verse

ध्यात्वा मन्त्र जपित्वा च स्तोत्र मेतत्तु यः पठेत् । तस्मैतुष्टा च झिल्लीरा प्रसन्ना च प्रसीदति ॥४७॥

Verse

झिल्लीरा मन्त्रविज्ञानं धानं स्तोत्रं विना तथा । यत्किञ्चित् क्रियते कर्म सर्वं भवति निष्फलम् ॥४८॥

Verse

इति श्रीकालीविलासतन्त्रे श्रीकृष्णोक्त झिल्लिरास्तोत्रं नामाष्टाविंशतिपटलः समाप्तः ।

śrījānakī aṣṭottaraśatanāmastotram
śrītārāśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms