Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīśyāmadevāṣṭottaraśatanāmastotram

श्रीश्यामदेवाष्टोत्तरशतनामस्तोत्रम्

Verse

अनाद्यन्तो ह्यनन्तश्रीराकाशग इहागमः । ईतित्राता चोग्रदण्ड ऊतिकृदृणशोधनः ॥१॥

Verse

एकराडैतिहासिक्यमृग्य ओषधिवीर्यदः । औपनिषदोंऽशुमान् केशप्रियः कल्याणवृत्तिदः ॥२॥

Verse

कलिकालेऽद्भुताचिन्त्यशक्तिशाली कृतिप्रियः । खाटूग्रामकृतस्थानः खाटूयात्राजनप्रियः ॥३॥

Verse

गुणाढ्यो गुणिसंरक्षी ग्रहभीतिविनाशकः । घटनाप्रियश्चन्द्ररम्यः छत्रधारी जयप्रदः ॥४॥

Verse

झटित्याश्चर्यकारी च टुप्क्रोधी ठाकुरप्रभुः । डाकिनीत्रासनिर्हारी ढुण्ढारिक्षेत्रमध्यगः ॥५॥

Verse

णकारैवदुर्लक्ष्यपदस्तेजस्तपोनिधिः । तपनीयाभूषणाढ्यो थूत्कारापहतासुरः ॥६॥

Verse

दृढव्रतो दृढप्रेमी दाता दानविधिप्रियः । धीरो धीरप्रियो धीमान् धीदाता धान्यवर्धनः ॥७॥

Verse

धात्रीप्रियो धैर्यदाता न्यायकारो नतिप्रियः । पामराणामपि त्राता पापहारी पशुप्रदः ॥८॥

Verse

फाल्गुनेऽफल्गुदाता च बहुबाहुर्भयापहः । भक्तप्रियो भक्तसखो भक्तभावप्रपोषकः ॥९॥

Verse

भक्तिदो भक्तवचसां श्रोता च भजनप्रियः । मितभाषी मृषाद्वेषी यज्ञप्रेमी यमप्रियः ॥१०॥

Verse

रम्यमन्दिरमध्यस्थो लीलया बहुरूपधृक् । विशालभालतिलकः शरणागतवत्सलः ॥११॥

Verse

षट्कर्मविद्यः सन्तानदाता तु हवनप्रियः । श्रीश्यामदेवो ब्रह्मण्यो बालकेशार्पणप्रियः ॥१२॥

Verse

दाम्पत्यक्षेमकर्ता च शुभोष्णीषी सदर्थकृत् । उशीरवासितजलप्रियः केतकिगन्धभूत् ॥१३॥

Verse

कौसुम्भवर्णवस्त्राढ्यः केसरालेपनप्रियः । आयताक्षः सुदीप्ताक्षः सुनासा विततश्रवाः ॥१४॥

Verse

शृङ्गारहृद्यो लोकेशो वर्वराकारकेशवान् । दर्शनीयतमः श्यामः सुललाटः सुविक्रमः ॥१५॥

Verse

किरीटी मणिरत्नाढ्यो मकराकृतिकुण्डली । श्वेतध्वजः स्मितमुखो भक्तानामभयङ्करः ॥१६॥

Verse

भक्तानां पालनार्थाय नानावेषधरोऽनघः । सत्यप्रियः प्राणदाता सत्यसख्यः सदावसुः ॥१७॥

Verse

द्वादशीतिथिसंसेव्यः साज्यचूर्णेलिमप्रियः । श्रीमद्भागवतास्वादरसिको भूतिवर्धनः ॥१८॥

Verse

॥ फलश्रुतिः ॥

Verse

अष्टोत्तरशतं नाम्ना प्रभोः श्यामस्य सेव्यताम् । क्षेमः शिवं रोगदोषनिवृत्तिरनुभूयताम् ॥१९॥

Verse

श्रीश्यामकृपया ह्येतन्नाम्नामष्टोत्तरं शतम् । गोपालचन्द्रमिश्रस्तु लोके प्राचीकशच्छुभम् ॥२०॥

Verse

॥ इति श्रीश्यामदेवाष्टोत्तरशतनामस्तोत्रम् ॥

śoṇācalaśivanāmastotram
śrīkṛṣṇāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms