Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīgaṇeśāṣṭottaraśatanāmstotram

श्रीगणेशाष्टोत्तरशतनाम्स्तोत्रम्

Verse

विनायको विघ्नराजः गौरीपुत्रो गणेश्वरः स्कन्दाग्रजोऽव्ययो पूतः दक्षोऽध्यक्षो द्विजप्रियः ॥१-१०॥

Verse

अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः सर्वसिद्धिप्रदः शर्वतनयो शर्वरीप्रियः ॥११-१६॥

Verse

सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितः शिवः शुद्धो बुद्धिप्रियो शान्तः ब्रह्मचारी गजाननः ॥१७-२६॥

Verse

द्वैमात्रेयो मुनिस्तुत्यः भक्तविघ्नविनाशनः एकदन्तश्चचतुर्बाहुः चतुरो शक्तिसंयुतः ॥२७-३३॥

Verse

लंबोदरो शूर्पकर्णः हरिर्ब्रह्मविदुत्तमः कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥३४-४१॥

Verse

पाशाङ्कुशधरश्चण्डः गुणातीतो निरञ्जनः अकल्मषः स्वयंसिद्धः सिद्धार्चितपदांबुजः ॥४२-४८॥

Verse

बीजपूरफलासक्तः वरदो शाश्वतः कृतिः विद्वत्प्रियो वीतभयः गदी चक्रीक्षुचापधृक् ॥४९-५७॥

Verse

श्रीदोऽजोत्पलकरः श्रीपतिःस्तुतिहर्षितः कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥५८-६५॥

Verse

चन्द्रचूडामणिः कान्तः पापहारी समाहितः आश्रितः श्रीकरः सौम्यः भक्तवाञ्छितदायकः ॥६६-७३॥

Verse

शान्तः कैवल्यसुखदः सच्चिदानन्दविग्रहः ज्ञानी दयायुतो दान्तः ब्रह्मद्वेषविवर्जितः ॥७४-८०॥

Verse

प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः रमार्चितो विधिर्नागराजयज्ञोपवीतवान् ॥८१-८६॥

Verse

स्थूलकण्ठ: स्वयंकर्ता सामघोषप्रियो परः स्थूलतुण्डोऽग्रणीर्धीरो वागीशो सिद्धिदायकः ॥८७-९५॥

Verse

दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥९६-९९॥

Verse

स्वलावण्यसुधासारजितमन्मथविग्रहः समस्तजगदाधारो मायी मूषिकवाहनः ॥१००-१०४॥

Verse

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ॥१०५-१०८॥

śrīkṛṣṇāṣṭottaraśatanāmastotram
śrī sītā aṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms