stotrasangraha
śivāṣṭottaraśatanāmastotram
शिवाष्टोत्तरशतनामस्तोत्रम्
Verse
अस्य शिवाष्टोत्तरशतनामस्तोत्रस्य विष्णुर्ऋषिः, अनुष्टुप् छन्दः, शिवः परमेश्वरो देवता, शिवप्रसादसिद्ध्यर्थे जपे विनियोगः।
Verse
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
Verse
शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः । वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥
Verse
शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः । शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२॥
Verse
भवः शर्वस्त्रिलोकीशः शितिकण्ठः शिवाप्रियः । उग्रः कपाली कामारिरन्धकासुरसूदनः ॥३॥
Verse
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः । भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥
Verse
कैलासवासी कवची कठोरस्त्रिपुरान्तकः । वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥
Verse
सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः । सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥६॥
Verse
हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः । विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥
Verse
हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः । भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥८॥
Verse
कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः । मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥
Verse
व्योमकेशो महासेनजनकश्चारुविक्रमः । रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥
Verse
अष्टमूर्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः । शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥११॥
Verse
मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः । पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥१२॥
Verse
भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात् । अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥
Verse
इमानि दिव्यनामानि जप्यन्ते सर्वदा मया । नामकल्पलतेयं मे सर्वाभीष्टप्रदायिनि ॥
Verse
नामान्येतानि सुभगे शिवदानि न संशयः । वेदसर्वस्वभूतानि नामान्येतानि वस्तुतः ॥
Verse
एतानि यानि नामानि तानि सर्वार्थदान्यतः । जप्यन्ते सादरं नित्यं मया नियमपूर्वकम् ॥
Verse
वेदेषु शिवनामानि श्रेष्ठान्यघहराणि च । सन्त्यनन्तानि सुभगे वेदेषु विविधेष्वपि ॥
Verse
तेभ्यो नामानि सङ्गृह्य कुमाराय महेश्वरः । अष्टोत्तरसहस्रं तु नाम्नामुपदिशत् पुरा ॥
Verse
॥इति शिवरहस्ये सप्तमेंऽशे त्रयोदशेऽध्याये नामकल्पलता नाम शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥
