stotrasangraha
śaṅkarācāryāṣṭottaraśatanāmastotram
शङ्कराचार्याष्टोत्तरशतनामस्तोत्रम्
Verse
कैलासाचल-मध्यस्थं कामिताभीष्टदायकम् । ब्रह्मादि-प्रार्थना-प्राप्त-दिव्यमानुष-विग्रहम् ॥
Verse
भक्तानुग्रहणैकान्त-शान्त-स्वान्त-समुज्ज्वलम् । संयज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥
Verse
किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् । ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥
Verse
श्रीशङ्कराचार्यवर्यो ब्रह्मज्ञानप्रदायकः । अज्ञानतिमिरादित्यः सुज्ञानाम्बुधिचन्द्रमा ॥१॥
Verse
वर्णाश्रमप्रतिष्ठाता श्रीमान् मुक्तिप्रदायकः । शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥२॥
Verse
सूक्ष्मतत्त्वरहस्यज्ञः कार्याकार्यप्रबोधकः । ज्ञानमुद्राञ्चितकरः शिष्य-हृत्ताप-हारकः ॥३॥
Verse
पारिव्राज्याश्रमोद्धर्ता सर्वतन्त्रस्वतन्त्रधीः । अद्वैतस्थापनाचार्यः साक्षाच्छङ्कररूपभृत् ॥४॥
Verse
षण्मतस्थापनाचार्यस्त्रयीमार्गप्रकाशकः । वेदवेदान्ततत्त्वज्ञो दुर्वादिमतखण्डनः ॥५॥
Verse
वैराग्यनिरतः शान्तः संसारार्णवतारकः । प्रसन्नवदनाम्भोजः परमार्थप्रकाशकः ॥६॥
Verse
पुराणस्मृतिसारज्ञो नित्यतृप्तो महच्छुचिः । नित्यानन्दो निरातङ्को निःसङ्गो निर्मलात्मकः ॥७॥
Verse
निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः । सत्त्वप्रधानः सद्भावः सङ्ख्यातीतगुणोज्ज्वलः ॥८॥
Verse
अनघः सारहृदयः सुधीः सारस्वतप्रदः । सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविचक्षणः ॥९॥
Verse
तपोराशिर्महातेजा गुणत्रयविभागवित् । कलिघ्नः कालधर्मज्ञस्तमोगुणनिवारकः ॥१०॥
Verse
भगवान् भारतीजेता शारदाह्वानपण्डितः । धर्माधर्मविभागज्ञो लक्ष्यभेदप्रदर्शकः ॥११॥
Verse
नादबिन्दुकलाभिज्ञो योगिहृत्पद्मभास्करः । अतीन्द्रिय-ज्ञाननिधिर्नित्यानित्यविवेकवान् ॥१२॥
Verse
चिदानन्दश्चिन्मयात्मा परकाय-प्रवेशकृत् । अमानुष-चरित्राढ्यः क्षेमदायी क्षमाकरः ॥१३॥
Verse
भवो भद्रप्रदो भूरिमहिमा विश्वरञ्जकः । स्वप्रकाशः सदाधारो विश्वबन्धुः शुभोदयः ॥१४॥
Verse
विशालकीर्तिर्वागीशः सर्वलोकहितोत्सुकः । कैलासयात्रा-सम्प्राप्त-चन्द्रमौलि-प्रपूजकः ॥१५॥
Verse
काञ्च्यां श्रीचक्र-राजाख्य-यन्त्रस्थापन-दीक्षितः । श्रीचक्रात्मक-ताटङ्क-पोषिताम्बा-मनोरथः ॥१६॥
Verse
श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः । चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥१७॥
Verse
द्विसप्तति-मतोच्छेत्ता सर्वदिग्विजयप्रभुः । काषायवसनोपेतो भस्मोद्धूलितविग्रहः ॥१८॥
Verse
ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः । व्याससन्दर्शनप्रीतो भगवत्पादसंज्ञकः ॥१९॥
Verse
चतुःषष्टिकलाभिज्ञो ब्रह्मराक्षस-मोक्षदः । सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥२०॥
Verse
श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुतः । तोटकाचार्यसम्पूज्यः पद्मपादार्चिताङ्घ्रिकः ॥२१॥
Verse
हस्तामलकयोगीन्द्रब्रह्मज्ञानप्रदायकः । सुरेश्वरादि-सच्छिष्य-सन्न्यासाश्रम-दायकः ॥२२॥
Verse
निर्व्याजकरुणामूर्तिर्जगत्पूज्यो जगद्गुरुः । भेरीपटहवाद्यादिराजलक्षणलक्षितः । सकृत्स्मरणसन्तुष्टः सर्वज्ञो ज्ञानदायकः ॥२३॥
Verse
॥इति श्री-शङ्कराचार्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥
