aSTottaranAma
śrī śaṃkarācāryāsṣṭottaraśatanāmastotram
श्री शंकराचार्यास्ष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीशंकराचार्यवर्यश्च ब्रह्मानन्दप्रदायकः अज्ञानतिमिरादित्यः सुज्ञानांबुधिचन्द्रमा ॥१-४॥
Verse
वर्णाश्रमप्रतिष्ठाता श्रीमान् मुक्तिप्रदायकः शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥५-९॥
Verse
सूक्ष्मतत्त्वरहस्यज्ञो कार्याकार्यप्रबोधकः ज्ञानमुद्रांकितकरो शिष्यहृत्तापहारकः ॥१०-१३॥
Verse
परिव्राजाश्रमोद्धर्त्ता सर्वतन्त्रस्वतंत्रधीः अद्वैतस्थापनाचार्यः साक्षाच्छंकररूपधृत् ॥१४-१७॥
Verse
षण्मतस्थापनाचार्यः त्रयीमार्गप्रकाशकः वेदवेदान्ततत्त्वज्ञः दुर्वादिमतखण्डनः ॥१८-२१॥
Verse
वैराग्यनिरतः शान्तः संसारार्णवतारकः प्रसन्नवदनांभोजः परमार्थप्रकाशकः ॥२२-२६॥
Verse
पुराणस्मृतिसारज्ञो नित्यतृप्तो महच्छुचिः नित्यानन्दो निरातङ्को निस्संगो निर्मलात्मकः ॥२७-३४॥
Verse
निर्ममो निरहंकारः विश्ववन्द्यपदांबुजः सत्वप्रदो सद्भावो संख्यातीतगुणोज्ज्वलः ॥३५-४०॥
Verse
अनघो सारहृदयो सुधीः सारस्वतप्रदः सत्यात्मा पुण्यशीलश्च सांख्ययोगविचक्षणः ॥४१-४७ । तपोराशिर्महातेजाः गुणत्रयविभागवित् कलिघ्नः कालकर्मज्ञः तमोगुणनिवारकः ॥४८-५३॥
Verse
भगवान् भारतीजेता शारदाह्वानपण्डितः धर्माधर्मविभागज्ञो लक्ष्यभेदप्रदर्शकः ॥५४-५८॥
Verse
नादबिंदुकलाभिज्ञः योगिहृत्पद्मभास्करः अतीन्द्रियज्ञाननिधिः नित्यानित्यविवेकवान् ॥५९-६२॥
Verse
चिदानन्दः चिन्मयात्मा परकायप्रवेशकृत् अमानुषचरित्राढ्यो क्षेमदायी क्षमाकरः ॥६३-६८॥
Verse
भव्यो भद्रप्रदो भूरिमहिमा विश्वरंजकः स्वप्रकाशो सदाधारः विश्वबन्धुच्छुभोदयः ॥६९-७६॥
Verse
विशालकीर्तिर्वागीशो सर्वलोकहितोत्सुकः कैलासयात्रासंप्राप्तचन्द्रमौलिप्रपूजकः ॥७७-८०॥
Verse
काञ्च्यां श्रीचक्रराजाख्य यंत्रस्थापनदीक्षितः श्रीचक्रात्मक ताटङ्कतोषितांबा मनोरथः ॥८१-८२॥
Verse
श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रंथकल्पकः चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥८३-८५॥
Verse
द्विसप्ततिमतोच्छेत्ता सर्वदिग्विजयप्रभुः काषायवसनोपीतः भस्मोद्धूलितविग्रहः ॥८६-८९॥
Verse
ज्ञानात्मैकदण्डाढ्यो कमण्डलुलसत्करः गुरुभूमण्डलाचार्यो भगवत्पादसंज्ञकः ॥९०-९३॥
Verse
व्याससंदर्शनप्रीतो ऋश्यशृंगपुरेश्वरः सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥९४-९६॥
Verse
चतुःषष्टिकलाभिज्ञो ब्रह्मराक्षसमोक्षदः श्रीमन्मण्डनमिश्राख्यस्वयंभूजयसन्नुतः ॥९७-९९॥
Verse
तोटकाचार्यसंपूज्यो पद्मपादार्चितांघ्रिकः हस्तामलकयोगीन्द्रब्रह्मज्ञानप्रदायकः ॥१००-१०२॥
Verse
सुरेश्वराख्यसच्छिष्यसंन्यासाश्रमदायकः नृसिंहभक्तो सद्रत्नगर्भहेरंबपूजकः ॥१०३-१०५॥
Verse
व्याख्यासिंहासनाधीशो जगत्पूज्यो जगत्गुरुः ॥१०६-१०८॥
