aSTottaranAma
śrīhariharaputrāṣṭottaraśatanāmastotram
श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम्
Verse
महाशास्ता महादेवो महादेवसुतोऽव्ययः लोककर्ता लोकभर्ता लोकहन्ता परात्परः ॥१-८॥
Verse
त्रिलोकरक्षको धन्वी तपस्वी भूतसैन्यकः मन्त्रवेत्ता महावेत्ता मारुतो जगदीश्वरः ॥९-१६॥
Verse
लोकाध्यक्षोऽग्रणी श्रीमान् अप्रमेयपराक्रमः सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥१७-२४॥
Verse
नानाशास्त्रधरोऽनर्घः नानाविद्याविशारदः नानारूपधरो वीरः नानाप्राणिनिषेवितः ॥२५-३०॥
Verse
भूतेशः पूजितो भृत्यो भुजंगाभरणोत्तमः इक्षुधन्वी पुष्पबाणॊ महारूपो महाप्रभुः ॥३१-३८॥
Verse
मायादेवीसुतो मान्यो महानीतो महागुणः महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥३९-४६॥
Verse
विघ्नेशो वीरभद्रेशो भैरवो षण्मुखध्रुवः मेरुशृंगसमासीनो मुनिसंघनिषेवितः ॥४७-५२॥
Verse
देवो भद्रो जगन्नाथः गणनाथो गणेश्वरः महायोगी महामायी महाज्ञानी महाधिपः ॥५३-६१॥
Verse
देवशास्ता भूतशास्ता भीमहासपराक्रमः नागहारो नागेशो व्योमकेशः सनातनः ॥६२-६८॥
Verse
कालज्ञो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः लोकाश्रयो गुणाधीशः चतुःषष्टिकलामयः ॥६९-७६॥
Verse
ऋग्यजुःसामरूपी च मल्लकासुरभञ्जनः त्रिमूर्तिर्दैत्यमथनो प्रकृतिः पुरुषोत्तमः ॥७७-८२॥
Verse
सुगुणश्च महाज्ञानी कामदः कमलेक्षणः कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥८३-९०॥
Verse
संसारतापविच्छेत्ता पशुलोकभयंकरः रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥९१-९५॥
Verse
सर्वशास्त्रार्थतत्त्वज्ञःनीतिमान् पापभञ्जनः पुष्कलापूर्णसम्युक्तो परमात्मा सताम्गतिः ॥९६-१०१॥
Verse
अनन्तादित्यसंकाशः सुब्रह्मण्यानुजो बली भक्तानुकंपी देवेशो भगवान् भक्तवत्स्लः ॥१०२-१०८॥
