aSTottaranAma
śrīhariharaputrāṣṭottaraśatanāmastotram
श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम्
Verse
अस्य श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रस्य ब्रह्मा ऋषिः ।
Verse
अनुष्टुप् छन्दः ।
Verse
श्रीहरिहरपुत्रो देवता ।
Verse
ह्रीं बीजम् ।श्रीं शक्तिः ।
Verse
क्लीं कीलकम् । श्रीहरिहरपुत्रप्रीत्यर्थे जपे विनियोगः ॥
Verse
ह्रीं इत्यादिभिः षडङ्गन्यासः ॥
Verse
ध्यानम् ॥
Verse
त्रिगुणितमणिपद्मं वज्रमाणिक्यदण्डं सितसुमशरपाशमिक्षुकोदण्डकाण्डम् । घृतमधुपात्रं बिभ्रतं हस्तपद्मैः हरिहरसुतमीडे चक्रमन्त्रात्ममूर्तिम् ॥
Verse
ॐ ।
Verse
महाशास्ता विश्वशास्ता लोकशास्ता तथैव च । धर्मशास्ता वेदशास्ता कालशस्ता गजाधिपः ॥१॥
Verse
गजारूढो गणाध्यक्षो व्याघ्रारूढो महद्युतिः । गोप्तागीर्वाणसंसेव्यो गतातङ्को गणाग्रणीः ॥२॥
Verse
ऋग्वेदरूपो नक्षत्रं चन्द्ररूपो बलाहकः । दूर्वाश्यामो महारूपः क्रूरदृष्टिरनामयः ॥३॥
Verse
त्रिनेत्र उत्पलकरः कालहन्ता नराधिपः । खण्डेन्दुमौळितनयः कल्हारकुसुमप्रियः ॥४॥
Verse
मदनो माधवसुतो मन्दारकुसुमर्चितः । महाबलो महोत्साहो महापापविनाशनः ॥५॥
Verse
महाशूरो महाधीरो महासर्पविभूषणः । असिहस्तः शरधरो हालाहलधरात्मजः ॥६॥
Verse
अर्जुनेशोऽग्निनयनश्चानङ्गमदनातुरः । दुष्टग्रहाधिपः श्रीदः शिष्टरक्षणदीक्षितः ॥७॥
Verse
कस्तूरीतिलको राजशेखरो राजसत्तमः । राजराजार्चितो विष्णुपुत्रो वनजनाधिपः ॥८॥
Verse
वर्चस्करोवररुचिर्वरदो वायुवाहनः । वज्रकायः खड्गपाणिर्वज्रहस्तो बलोद्धतः ॥९॥
Verse
त्रिलोकज्ञश्चातिबलः पुष्कलो वृत्तपावनः । पूर्णाधवः पुष्कलेशः पाशहस्तो भयापहः ॥१०॥
Verse
फट्काररूपः पापघ्नः पाषण्डरुधिराशनः । पञ्चपाण्डवसन्त्राता परपञ्चाक्षराश्रितः ॥११॥
Verse
पञ्चवक्त्रसुतः पूज्यः पण्डितः परमेश्वरः । भवतापप्रशमनो भक्ताभीष्टप्रदायकः ॥१२॥
Verse
कविः कवीनामधिपः कृपाळुः क्लेशनाशनः । समोऽरूपश्च सेनानिर्भक्तसम्पत्प्रदायकः ॥१३॥
Verse
व्याघ्रचर्मधरः शूली कपाली वेणुवादनः । कम्बुकण्ठः कलरवः किरीटादिविभूषणः ॥१४॥
Verse
धूर्जटिर्वीरनिलयो वीरो वीरेन्दुवन्दितः । विश्वरूपो वृषपतिर्विविधार्थफलप्रदः ॥१५॥
Verse
दीर्घनासो महाबाहुश्चतुर्बाहुर्जटाधरः । सनकादिमुनिश्रेष्ठस्तुत्यो हरिहरात्मजः ॥१६॥
Verse
इति श्री हरिहरपुत्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
