Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīhayagrīvāṣṭottaraśatanāmastotram

श्रीहयग्रीवाष्टोत्तरशतनामस्तोत्रम्

Verse

अथ विनियोगः - ॐ अस्य श्रीहयग्रीवस्तोत्रमन्त्रस्य सङ्कर्षण ऋषिः, अनुष्टुप्छन्दः, श्रीहयग्रीवो देवता ऋं बीजं नमः शक्तिः विद्यार्थे जपे विनियोगः ॥

Verse

अथ ध्यानम् - वन्दे पूरितचन्द्रमण्डलगतं श्वेतारविन्दासनं मन्दाकिन्यमृताब्धिकुन्दकुमुदक्षीरेन्दुहासं हरिम् । मुद्रापुस्तकशङ्खचक्रविलसच्छ्रीमद्भुजामण्डितम् नित्यं निर्मलभारतीपरिमलं विश्वेशमश्वाननम् ॥

Verse

अथ मन्त्रः - ॐ ऋग्यजुःसामरूपाय वेदाहरणकर्मणे । प्रणवोद्गीथवचसे महाश्वशिरसे नमः ॥

Verse

श्रीहयग्रीवाय नमः ।

Verse

अथ स्तोत्रम् - ज्ञानानन्दमयं देवं निर्मलं स्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥१॥

Verse

हयग्रीवो महाविष्णुः केशवो मधुसूदनः । गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वम्भरो हरिः ॥२॥

Verse

आदीशः सर्ववागीशः सर्वाधारः सनातनः । निराधारो निराकारो निरीशो निरुपद्रवः ॥३॥

Verse

निरञ्जनो निष्कलङ्को नित्यतृप्तो निरामयः । चिदानन्दमयः साक्षी शरण्यः सर्वदायकः ॥४॥

Verse

शुभदायकः श्रीमान् लोकत्रयाधीशः शिवः सारस्वतप्रदः । वेदोद्धर्त्तावेदनिधिर्वेदवेद्यः पुरातनः ॥५॥

Verse

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिः परात्परः । परमात्मा परञ्ज्योतिः परेशः पारगः परः ॥६॥

Verse

सकलोपनिषद्वेद्यो निष्कलः सर्वशास्त्रकृत् । अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः ॥७॥

Verse

पुराणपुरुषः श्रेष्ठः शरण्यः परमेश्वरः । शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः ॥८॥

Verse

जरामृत्युहरो जीवो जयदो जाड्यनाशनः । गरुडासनः जपप्रियो जपस्तुत्यो जपकृत्प्रियकृद्विभुः ॥९॥

Verse

var जयश्रियोर्जितस्तुल्यो जापकप्रियकृद्विभुः विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः । विराट् स्वराट् विधिविष्णुशिवस्तुत्यः शान्तिदः क्षान्तिकारकः ॥१०॥

Verse

श्रेयःप्रदः श्रुतिमयः श्रेयसां पतिरीश्वरः । अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः ॥११॥

Verse

अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः । अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः ॥१२॥

Verse

ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः । योगारूढो महापुण्यः पुण्यकीर्तिरमित्रहा ॥१३॥

Verse

विश्वसाक्षी चिदाकारः परमानन्दकारकः । महायोगी महामौनी मुनीशः श्रेयसां निधिः ॥१४॥

Verse

हंसः परमहंसश्च विश्वगोप्ता विरट् स्वराट् । शुद्धस्फटिकसङ्काशः जटामण्डलसंयुतः ॥१५॥

Verse

आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः । प्रणवोद्गीथरूपश्च वेदाहरणकर्मकृत् ॥१६॥

Verse

नाम्नामष्टोत्तरशतं हयग्रीवस्य यः पठेत् । स सर्ववेदवेदाङ्गशास्त्राणां पारगः कविः ॥१७॥

Verse

इदमष्टोत्तरशतं नित्यं मूढोऽपि यः पठेत् । वाचस्पतिसमो बुद्ध्या सर्वविद्याविशारदः ॥१८॥

Verse

महदैश्वर्यमाप्नोति कलत्राणि च पुत्रकान् । नश्यन्ति सकलान् रोगान् अन्ते हरिपुरं व्रजेत् ॥१९॥

Verse

॥ इति श्रीब्रह्माण्डपुराणे श्रीहयग्रीवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

śrīrāmarahasyoktaṃ śrīhanumadaṣṭottaraśatanāmastotram
śrīhariharaputrāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms