aSTottaranAma
śrīrāmarahasyoktaṃ śrīhanumadaṣṭottaraśatanāmastotram
श्रीरामरहस्योक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्
Verse
।
Verse
श्रीसीतारामौ विजयेते ।
Verse
ॐ हनुमानञ्जनासूनुर्धीमान् केसरिनन्दनः । वातात्मजो वरगुणो वानरेन्द्रो विरोचनः ॥१॥
Verse
सुग्रीवसचिवः श्रीमान् सूर्यशिष्यस्सुखप्रदः । ब्रह्मदत्तवरो ब्रह्मभूतो ब्रह्मर्षिसन्नुतः ॥२॥
Verse
जितेन्द्रियो जिताराती रामदूतो रणोत्कटः । सञ्जीविनीसमाहर्ता सर्वसैन्यप्रहर्षकः ॥३॥
Verse
रावणाकम्प्यसौमित्रिनयनस्फुटभक्तिमान् । अशोकवनिकाच्छेदी सीतावात्सल्यभाजनम् ॥४॥
Verse
विषीदद्भूमितनयार्पितरामाङ्गुलीयकः । चूडामणिसमानेता रामदुःखापहारकः ॥५॥
Verse
अक्षहन्ता विक्षतारिस्तृणीकृतदशाननः । कुल्याकल्पमहाम्भोधिस्सिंहिकाप्राणनाशनः ॥६॥
Verse
सुरसाविजयोपायवेत्ता सुरनरार्चितः । जाम्बवन्नुतमाहात्म्यो जीविताहतलक्ष्मणः ॥७॥
Verse
जम्बुमालिरिपुर्जम्भवैरिसाध्वसनाशनः । अस्त्रावध्यो राक्षसारिस्सेनापतिविनाशनः ॥८॥
Verse
लङ्कापुरप्रदग्धा च वालानलसुशीतलः । वानरप्राणसन्दाता वालिसूनुप्रियङ्करः ॥९॥
Verse
महारूपधरो मान्यो भीमो भीमपराक्रमः । भीमदर्पहरो भक्तवत्सलो भर्त्सिताशरः ॥१०॥
Verse
रघुवंशप्रियकरो रणधीरोरयाकरः । भरतार्पितसन्देशो भगवच्छिलष्टविप्रग्रहः ॥११॥
Verse
अर्जुनध्वजवासी च तर्जिताशरनायकः । महान् महामधुरवाङ्महात्मा मातरिश्वजः ॥१२॥
Verse
मरुन्नुतो महोदारगुणो मधुवनप्रियः । महाधैर्यो महवीर्यो मिहिराधिककान्तिमान् ॥१३॥
Verse
अन्नदो वसुदो वाग्मी ज्ञानदो वत्सलो वशी । वशीकृताखिलजगद्वरदो वानराकृतिः ॥१४॥
Verse
भिक्षुरूपप्रतिच्छन्नोऽभीतिदो भीतिवर्जितः । भूमीधरहरोभूतिदायको भूतसन्नुतः ॥१५॥
Verse
भुक्तिमुक्तिप्रदो भूमा भुजनिर्जितराक्षसः । वाल्मीकिस्तुतमाहात्म्यो विभीषणसुहृद्विभुः ॥१६॥
Verse
अनुकम्पानिधिः पम्पातीरचारी प्रतापवान् । बह्मास्त्रहतरामादिजीवनो ब्रह्मवत्सलः ॥१७॥
Verse
जयवार्ताहरो जेता जानकीशोकनाशनः । जानकीरामसाहित्यकारी जनसुखप्रदः ॥१८॥
Verse
बहुयोजनगन्ता च बलवीर्यगुणाधिकः । रावणालयमर्दी च रामपादाब्जवाहकः ॥१९॥
Verse
रामनामलसद्वक्तो रामायणकथादृतः । रामस्वरूपविलसन्मानसो रामवल्लभः ॥२०॥
Verse
इत्थमष्टोत्तरशतं नाम्नां वातात्मजस्य यः । अनुसन्ध्यं पठेत्तस्य मारुतिस्संप्रसीदति ॥२१॥
Verse
प्रसन्ने मारुतौ रामो भुक्तिमुक्ती प्रयच्छति ।
Verse
इति श्रीरामरहस्योक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रं समाप्तम् ।
